Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३०]
बौद्धशासन-परीक्षा त्वापत्तेरिति, तदपि दूषणं परमाणूनामनन्यथै। कान्तवादिनां स्थान पुनः स्याद्वादिनाम् । यथैव हि नैयायिकादयः 'परमाणवो विविक्तावस्थावत् प्रचयावस्थायामपि परमाणुत्वं न त्यजन्ति' इति मन्यन्ते न तथा स्याद्वादिनो येन तदोषस्तेषामनुषज्येत; तैः परमाणू नां स्निग्धरूक्षाणाममघन्यगुणानां द्वयधिकादिगुणानां विजातीयानां सजातीयानां च सक्तुतोयवत् संतप्तजतुखण्डवत् कथंचित् स्कन्धाकारपरिणामात्मकस्य संबन्धस्याभ्युपगमात् । ।
"लुक्खस्स लुक्खेण दुवाहिएण, णिद्धस्स णिद्धण दुवाहिएण। णिद्धस्स लुक्खेण हवेइ बन्धो, जहण्णवज्जे विसमे समे वा ॥'
] इति वचनात् । २८. परैरप्येवमभ्युपगमः कर्तव्यः, अन्यथा अर्थक्रियाविरोधात् , अणूनामन्योन्यमसंबन्धतो जलधारणाहरणाद्यर्थक्रियाकारित्वानुपपत्तेः । रज्जुवंशदण्डादीनामेकदेशापकर्षणे तदन्याकर्षणे चासंबन्धवादिनो न स्यात् । अस्ति चैतत् सर्वम् , विकल्पप्रतिभासिनः प्रत्यक्षदृष्टत्वसिद्धेः अदृष्टे विकल्पायोगात्, अन्यथातिप्रसंगस्योक्तमायत्वात् । असंबद्धयरमाणुमात्रग्राहिप्रत्यक्षादिप्रमाणाभावस्य प्रतिपादितत्वाच्च । ततो जलाहरणाद्यर्थक्रियान्यथानुपपत्तेः संबन्धासिद्धः । ७
२९. किं च, एवं वदतः चित्रज्ञाननि सलवविशेषाणामेकदेशन सर्वात्मनापि संबन्धासिद्धेः सकलनीलादिनिर्भासावयवव्याप्येकत्वं तत्र' न सिद्ध्येत् । तदवयवपृथक्त्वकल्पनायां चित्रैकज्ञानव्यवहारो मा भृत् : पृथग्वर्णान्तरविषयानेकसंतानैकैकक्षणवत् । तत्र प्रत्यासत्तिविशेषः कथंचिदैवयात्कोऽपरः स्यात् ; देशप्रत्यासत्तेः शीतवातादिभिः व्यभिचारात ; कालप्रत्यासत्तेरेकसमयवर्तिभिरशेषार्थैरनेकान्तात भाव प्रत्यासत्तेरेकार्थोद्भूतानेकपुरुषज्ञानेरनैकान्तिकत्वात् , द्रव्यप्रत्यासत्तिरेव पारिशेप्यात् संभाव्यते । सा चैकद्रव्यतादात्म्यलक्षणत्वात् प्रत्यासत्तिविशेष इति कथंचिदैक्यमेवैकत्वव्यवहारनिबन्धनं चित्रज्ञानस्य ।
३०. तदेवं प्रमाणप्रसिद्धचित्रज्ञानवत् सूक्ष्मस्थूलात्मनि जात्यन्तरे स्याद्वादीष्टवस्तुनि वृत्तिदोषाद्यखिलदोषो नावकाशं लभते । अत्रान्यत्र च सर्वत्र विरोधादिदूषणं चित्रज्ञानमेवापहस्तयतीति किं नश्चिन्तया । ततः स्याद्वादीनां संमतः स्थूलाकारः परमार्थ एव सिद्धः। एतेन तदभिमतः साधारणाकारोऽपि परमार्थतया सिद्धः स्याद्वादिसंमतस्य सदृशपरिणामलक्षणस्य सामान्यस्याप्रतिक्षेपार्हत्वात् , अन्यथा शुक्तिकादे रजताद्यपेक्षया साधर्म्य दर्शनस्याभावात् , कथं तन्निबन्धनस्तत्र
१. परमाणवः परमाणव एव न तु अन्यरूपा अवयविरूपा वा भवन्ति इत्येकान्तवादिनाम् । २. रूक्षस्य रूक्षेण द्वयाधिकेन, स्निग्धस्थ स्निग्धेन द्वयाधिकेन । स्निग्धस्य रुक्षेण भवति बन्धः, जघन्यवज्य विषमे समे वा ॥ उद्धृतम्-सर्वा० पृ० ३०७ । ३. बौद्धैरपि । ४. कथंचित् नित्यानित्यात्मनि ।
1. -मनन्यतैकान्त-ग। 2. जघन्यगुणानां विजातीयानां च सक्त क०, ख.। 3. लक्ख क०, ख० । 4. उवेइ क०, ख० । 5.-पादित्वाच्च क०, ख०। 6. संबन्धः सिद्धः। 7. -बयव्याप्येतत्वं तत्र क०, ख०। 8. वावकाशं क०, ख० । 9. वादि स-ग० । 10. साधर्म- क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164