Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
सत्यशासन-परीक्षा
[ १२
१२. तथा सत्युपलब्धियोग्यत्वे सत्यनुपलब्धेः नास्ति प्रधानम् । तदभावे तन्निमित्तका महदादयोऽपि न सिध्येयुरिति सर्वाभाव: । तथापि यदि वैय्यात्यात् महदादिसृष्टि प्रक्रियोच्यते, तदायं प्रष्टव्यः - किमिदं महदादिकं प्रधानस्य कार्य वा परिणामो वेति, प्रथमपक्षे न तावत् सतस्तस्य कार्यत्वम् ; सर्वथा सतः कारणवैय्यर्थात् पुरुषवत् ।
1
३२
नाप्यसतः;
“यदि सत् सर्वथा" कार्य पुंवन्नोत्पत्तुमर्हति ।" [ आप्तमी० श्लो० ३९ ] इति वचनात् ।
"असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥”
इति स्वसिद्धान्तविरोधात् । सर्वथाप्यसतः उत्पत्तिविरोधाच्च । "यद्यत्सर्वथा कार्य तन्माजनि खपुष्पवत् । " [ आप्तमी० श्लो० ४२ ] इति वचनात् । १३. द्वितीयपक्षे परिणामिनो' बहुधानकस्य परिणामा महदादयोऽत्यन्तं भिन्ना वा स्युः अभिन्ना वा, तत्र परिणामानां तदभिन्नानां क्रमशो वृत्तिर्मा भूत् परिणामिनोऽक्रमत्वात् । ततो भिन्नानां व्यपदेशो न स्यात् संबन्धासिद्धेरनुपकारकत्वात् ।
[ सांख्यका० ९ ]
$ १४. न तावत् प्रधानं परिणामानामुपकारकम्; तत्कृतोपकारान्तरस्य कार्यत्वे सदसत्पक्षोक्तदोषानुषंगात् । परिणामत्वेतरभिन्नानां क्रमोत्पत्तिर्मा भूत् । भिन्नानां व्यपदेशो न स्यात् संबन्धासिद्धेरनुपकारात् । उपकारान्तरकल्पनाया मनवस्थाप्रसंगात् । परिणामैः प्रधानस्योपकारे यावन्तो हि परिणामास्तावन्तस्तस्योपकारास्तत्कृतास्ततो यदि भिन्नाः, तदा तस्येति व्यपदेशोऽपि मा भूत् संबन्धासिद्धेरनुपकारकत्वात् । " तद्वतस्तैरुपकारान्तरेऽपि स एव पर्यनुयोगः इत्यनवस्था । ततस्ते यद्यभिन्नास्तदा तावद्धा प्रधानं भिद्येत । ते वा प्रधानैकरूपतां प्रतिपद्येरन्निति प्रधानस्योपकाराणां चावस्थानासम्भवः ।
$ १५. अथ न भिन्नो नाप्यभिन्नः परिणामः केवलं महदादिरूपेण प्रधानं परिणमते दण्डकुण्डलाद्याकारैः सर्पवदिति चेत्; तदेतत् स्वेष्ट नित्यैकान्तबाधकम् ; पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामाभ्युपगमे नित्यानित्यात्मकत्वस्यावश्यम्भावात् ।
Jain Education International
$ १६. तदेवमनेकबाधकोपनिपातात् प्रधानादिचतुर्विंशतितत्त्वानि न व्यवतिष्ठन्ते । तदव्यवस्थितौ भोग्याभावे पुंसो भोक्तृत्वाभावादभावः स्यात्तस्यै तल्लक्षणत्वात् । ततः प्रकृतिपुरुषतत्त्वयोरवस्थानाभावात् सांख्याभिमतं सर्वं तत्त्वं पुनरपि शून्यं जायत इति तत्कथं प्रत्यक्षसिद्धं स्यात् ;
१. विपरीताग्रहात् । २. पुरुषस्य ।
1. करणवै - क०, ख० । 2. सर्वदा क० । 3 इति सिद्धान्त ग० । 4 परणामिनो क०, ख० । 5. क्रमतो ग० । 6. तद्वतस्तैरकालैरूप- ग० । 7. यात्वक क० । 8. -को निपातात् क०, ख० ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164