Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 124
________________ ११] सांख्यशासन-परीक्षा ५. इत्येवं प्रकृतिपुरुषयोर्भेदविज्ञानात् प्रकृतिनिवृत्तौ पुरुषस्य सुषुप्तपुरुषवदव्यक्तचैतन्योपयोगेन स्वरूपमात्रावस्थानलक्षणो मोक्षः । तस्य चोपायः पञ्चविंशतितत्त्वपरिज्ञानमेव । “पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे स्थितः। जटी मुण्डी शिखी केशी मुच्यते नात्र संशयः ॥” ] इति वचनात् [ उत्तरपक्षः] ६. तदेतत्कपिलमतं दृष्टविरुद्धम । तथा हि- तावत्पुरुषव्यतिरिक्तसर्वार्थाः प्रधानमयाः कापिलैरिष्टाः । तच्च प्रधानं सर्वदा वर्तते नित्यत्वात् , सर्वत्र च वर्तते तस्य व्यापकत्वेनाभ्युपगमात्, सर्वत्र च संपूर्णतया वर्तते तस्य सर्वथानिरवयवत्वेनेष्टत्वात् । तथा च 'सर्व सर्वत्र वर्तते' इत्यायातम् । 'सर्वमयं प्रधानं सर्वत्र साकल्येन वर्तते' इत्यभ्युपगमे 'सर्वं सर्वत्र वर्तते'इत्यस्यावश्यमभ्युपगन्तव्यत्वात् । ७. नन्विष्टापादनमिदं सर्व सर्वत्र चास्त इति कापिलैरुररीकरणादिति चेत्; तदिदं हि स्पष्टं दृष्टविरुद्धम् ; प्रत्यक्षेण प्रतिनियतदेशकालस्यैवार्थस्य दर्शनात् । न हि प्रत्यक्षेण सर्व सर्वत्र दृश्यते । अङ्गुल्यग्रे हस्तियथशतादेरपि दर्शनप्रसंगात् । ८. ननु नैष दोषः सर्वस्य सर्वत्र सद्भावेऽपि यत्र यस्याविर्भावः स एव तत्र दृश्यते न पुनरन्यस्तिरोहितः, इत्यर्थानां दर्शनयोग्यायोग्यत्वव्यवस्थितेरिति चेत् ; कोऽयमाविर्भावो नामप्रागनुपलब्धस्य व्यञ्जकव्यापारादुपलम्भ इति चेत् ; स च नित्यो वाऽनित्यो वा; यद्यनित्यः, तदा स प्रागसन् कारणैः क्रियेत, अन्यथा नित्यत्वप्रसंगात्, तथा च घटादिरपि तद्वत् प्रागसन् कारणैः क्रियताम्, न चैवं, सत्कार्यवादविरोधात् । आविर्भावः प्रागसन् कारणैः क्रियेत न: पुनर्घटादिरिति स्वरुचिवचनमात्रं निरुपपत्तिकत्वात् । यदि नित्यः, तदा तदेव सर्वत्र सर्वस्य दर्शनं स्यात् , आविर्भावस्य सदा सत्त्वात । ९. अथाविर्भावस्य प्राक्तिरोहितस्य सत एव 4 कारणैराविर्भावान्तरमिप्यते, तर्हि तस्याप्यन्यत्तस्याप्यन्यदाविर्भावनमित्यनवस्थानान्न कदाचित् घटादेराविर्भावः स्यात् । १०. अथाविभावस्योपलम्भरूपस्य तद्रूपाविर्भावान्तरानपेक्षत्वात प्रकाशस्य प्रकाशान्तरानपेक्षत्ववन्नानवस्थेति मतम् ; तर्हि तस्य कारणस्य कारणादात्मलाभोऽभ्युपगन्तव्यः, उत्पत्तिअभिव्यक्तिभ्यां प्रकारान्तराभावात् तत्र चोक्तदोष इति नाविर्भावः सिद्ध्येत् । ६ ११. यत्तेन तिरोभावेऽपि प्रत्यादिष्टप्रायः तस्य नित्यानित्यपक्ष योरुक्तदोषानुषङ्गात् । आविर्भावस्य निरस्तत्वेन तृतीयपक्षस्य चाऽसंभवात् । एवमाविर्भावतिरोभावयोरसिद्धौ तद्वशात् कचित्कस्यचित् प्रतीतेरनुपपत्तेः सर्व सर्वत्र दृश्यताम् । न चैवम् ; इति प्रत्यक्षविरोधस्तदवस्थ 10 एव । १. श्लोकोऽयं सांख्यका० माठरवृत्तौ 'यदुक्तम्' इति कृत्वा उद्धतः । 1. चैतस्याप- क०, चैतन्ययोगेन ख०। 2. क्रियाम् क०, ख०। 3. क्रिये न क० । 4. एवाकारण ख० । 5. कदाचिर्घ- क०। 6. -तरापेक्ष- क०। 7. लाभोऽप्युप- क० । 8. -भावोऽपि ग०। 9. -धिष्ट क०। 10. -वस्थं वा क०, ख०। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164