________________
११]
सांख्यशासन-परीक्षा ५. इत्येवं प्रकृतिपुरुषयोर्भेदविज्ञानात् प्रकृतिनिवृत्तौ पुरुषस्य सुषुप्तपुरुषवदव्यक्तचैतन्योपयोगेन स्वरूपमात्रावस्थानलक्षणो मोक्षः । तस्य चोपायः पञ्चविंशतितत्त्वपरिज्ञानमेव ।
“पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे स्थितः। जटी मुण्डी शिखी केशी मुच्यते नात्र संशयः ॥”
] इति वचनात् [ उत्तरपक्षः]
६. तदेतत्कपिलमतं दृष्टविरुद्धम । तथा हि- तावत्पुरुषव्यतिरिक्तसर्वार्थाः प्रधानमयाः कापिलैरिष्टाः । तच्च प्रधानं सर्वदा वर्तते नित्यत्वात् , सर्वत्र च वर्तते तस्य व्यापकत्वेनाभ्युपगमात्, सर्वत्र च संपूर्णतया वर्तते तस्य सर्वथानिरवयवत्वेनेष्टत्वात् । तथा च 'सर्व सर्वत्र वर्तते' इत्यायातम् । 'सर्वमयं प्रधानं सर्वत्र साकल्येन वर्तते' इत्यभ्युपगमे 'सर्वं सर्वत्र वर्तते'इत्यस्यावश्यमभ्युपगन्तव्यत्वात् ।
७. नन्विष्टापादनमिदं सर्व सर्वत्र चास्त इति कापिलैरुररीकरणादिति चेत्; तदिदं हि स्पष्टं दृष्टविरुद्धम् ; प्रत्यक्षेण प्रतिनियतदेशकालस्यैवार्थस्य दर्शनात् । न हि प्रत्यक्षेण सर्व सर्वत्र दृश्यते । अङ्गुल्यग्रे हस्तियथशतादेरपि दर्शनप्रसंगात् ।
८. ननु नैष दोषः सर्वस्य सर्वत्र सद्भावेऽपि यत्र यस्याविर्भावः स एव तत्र दृश्यते न पुनरन्यस्तिरोहितः, इत्यर्थानां दर्शनयोग्यायोग्यत्वव्यवस्थितेरिति चेत् ; कोऽयमाविर्भावो नामप्रागनुपलब्धस्य व्यञ्जकव्यापारादुपलम्भ इति चेत् ; स च नित्यो वाऽनित्यो वा; यद्यनित्यः, तदा स प्रागसन् कारणैः क्रियेत, अन्यथा नित्यत्वप्रसंगात्, तथा च घटादिरपि तद्वत् प्रागसन् कारणैः क्रियताम्, न चैवं, सत्कार्यवादविरोधात् । आविर्भावः प्रागसन् कारणैः क्रियेत न: पुनर्घटादिरिति स्वरुचिवचनमात्रं निरुपपत्तिकत्वात् । यदि नित्यः, तदा तदेव सर्वत्र सर्वस्य दर्शनं स्यात् , आविर्भावस्य सदा सत्त्वात ।
९. अथाविर्भावस्य प्राक्तिरोहितस्य सत एव 4 कारणैराविर्भावान्तरमिप्यते, तर्हि तस्याप्यन्यत्तस्याप्यन्यदाविर्भावनमित्यनवस्थानान्न कदाचित् घटादेराविर्भावः स्यात् ।
१०. अथाविभावस्योपलम्भरूपस्य तद्रूपाविर्भावान्तरानपेक्षत्वात प्रकाशस्य प्रकाशान्तरानपेक्षत्ववन्नानवस्थेति मतम् ; तर्हि तस्य कारणस्य कारणादात्मलाभोऽभ्युपगन्तव्यः, उत्पत्तिअभिव्यक्तिभ्यां प्रकारान्तराभावात् तत्र चोक्तदोष इति नाविर्भावः सिद्ध्येत् ।
६ ११. यत्तेन तिरोभावेऽपि प्रत्यादिष्टप्रायः तस्य नित्यानित्यपक्ष योरुक्तदोषानुषङ्गात् । आविर्भावस्य निरस्तत्वेन तृतीयपक्षस्य चाऽसंभवात् । एवमाविर्भावतिरोभावयोरसिद्धौ तद्वशात् कचित्कस्यचित् प्रतीतेरनुपपत्तेः सर्व सर्वत्र दृश्यताम् । न चैवम् ; इति प्रत्यक्षविरोधस्तदवस्थ 10 एव ।
१. श्लोकोऽयं सांख्यका० माठरवृत्तौ 'यदुक्तम्' इति कृत्वा उद्धतः ।
1. चैतस्याप- क०, चैतन्ययोगेन ख०। 2. क्रियाम् क०, ख०। 3. क्रिये न क० । 4. एवाकारण ख० । 5. कदाचिर्घ- क०। 6. -तरापेक्ष- क०। 7. लाभोऽप्युप- क० । 8. -भावोऽपि ग०। 9. -धिष्ट क०। 10. -वस्थं वा क०, ख०।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org