________________
[ सांख्यशासन-परीक्षा] [ पूर्वपक्षः ]
१. तथा सांख्यशासनमपिदृष्टेष्टविरुद्धम् । एवं हि तावदाख्यान्ति सांख्याःसर्वमिदं जगत्प्रधानमयम् प्रधानं च सत्त्वरजस्तमसां साम्यावस्थास्वरूपम् । तथा च तद्
ग्रन्थाः
"सत्त्वं लघुप्रकाशकमिष्टमवष्टम्भकं चलं च रजः। गुरुवरणकमेव तमः साम्यावस्था भवेत्प्रकृतिः॥'
[ सांख्यका० १३] $ २. तत्र यदिष्टं प्रकाशकं लघु तत्सत्त्वमित्युच्यते । सत्त्वोदयात् प्रशस्ता एव परिणामा जायन्ते । यच्च चल मवष्टम्भकं दारकं ग्राहकं वा तद्रज इत्युच्यते । रजस उदयाद्रागपरिणामा एव जायन्ते । यद्गुरु आवरणकमज्ञानहेतुभूतं तत्तम इति निरूप्यते । तमस उदयात् द्वेषादज्ञानपरिणामा एव जायन्ते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः ।
"प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि ।।"
सांख्यका० २२] ३३. जगदुत्पादिका प्रकृतिः, 'प्रधानं बहुधानकम्' इति प्रकृतेरभिधानानि । ततः प्रकृतेर्महानुत्पद्यते । आसर्गप्रलयस्थायिनी बुद्धिर्महान् । ततो महतः सकाशादहंकार उत्पद्यते । 'अहं ज्ञाता, अहं सुखी, अहं दुःखी' इत्यादि प्रत्ययविषयः । ततोऽहंकाराद् गन्धरसरूपस्पर्शशब्दाः', पञ्चतन्मात्राः, स्पर्शन-रसन-घ्राण-चक्षु-श्रोत्राणि पञ्चबुद्धीन्द्रियाणि, वाक-पाणि-पादपायूपस्थानि पञ्चकर्मेन्द्रियाणि, मनश्चेति षोडशगणाः समुत्पद्यन्ते । तेपु षोडशगणेषु पञ्चतन्मात्रेभ्यः पञ्चभूतानि समुत्पद्यन्ते ।
४. तद्यथा---गन्धरूपरसस्पर्शभ्यः पृथिवी, रसरूपस्पर्शेभ्यो जलम् , रूपस्पर्शाभ्यां तेजः, स्पर्शाद्वायुः, शब्दादाकाशः समुत्पद्यत इति सृष्टिक्रमः । एतानि चतुर्विंशतितत्त्वानि । पञ्चविंशको जीवः । षड्विंशकः परम इति निरीश्वरसांख्याः। पड्विंशको महेश्वरः, सप्तविंशतिः परम इति सेश्वरसांख्याः । तेषु तत्त्वेषु --
"मूलप्रकृतिरविकृतिर्महादाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥"
[सांख्यका० ३]
१. प्रधानमिति प्रकृतेर्नामान्तरम् । २. मलविसर्जनद्वारम् । ३. मूत्रविसर्जनेन्द्रियम् । ४. मुक्तः ।
1. एवं तावदा. क०, ख० । 2. जलम- क०, ख०। 3. ज्ञात्वा क, ख० । 4. स्पर्शनश- क०, ख० । 5. गुणेषु क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org