Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 119
________________ २६ सत्यशासन-परीक्षा [३१रूप्या ध्यारोपः, यत इदं सूक्तं भवेत् । ____ "शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥' [प्र० वा० १।४५ ] इति ३१. न च साधादपरं सामान्यमस्ति, तस्य नित्यव्यापिस्वभावस्य क्वचिदप्यप्रतिवेदनात् । तथा स्याद्वादिसंमतः- स्थिराकारः परमार्थ एव, चित्रज्ञानस्यैकस्य युगपदनेकाकारख्यापित्ववत् क्रमेणाप्येकस्यात्मादेरनेकाकारव्यापित्वसिद्धेः । तथैवोक्तं भट्टाकलङ्कदेवैः "यथैकं भिन्नदेशार्थान् कुर्याद्वयाप्नोति वा सकृत् । तथैकं भिन्नकालार्थान् कुर्याद् व्याप्नोति वा क्रमात् ॥” [लघी० श्लो० ३७ ] इति पूर्वोत्तरक्षणानां सर्वथानिरन्वयत्वे अर्थक्रियाविरोधाच्च । न हि क्षणक्षयैकान्तपक्षे अर्थक्रियोपपन्ना; बहिरन्तरर्थानां निरन्वयविनाशे कार्यस्य निर्हेतुकत्वापत्तेर्जन्मविरोध सिद्धेः ।। $ ३२. ननु पूर्वक्षणादुत्तरक्षणस्य प्रादुर्भावात् कुतो निष्कारणत्वं कार्यस्येति चेत् ; न; 'कार्यकालमपाप्नुवतः कारणत्वानुपपत्तेः, चिरतरातीतवत् । ३३. ननु कार्यकालं प्राप्नुवतोऽपि न कारणत्वम् , अन्यथा सर्वस्य समानक्षणवर्तिनस्तत्कारणत्वप्रसंगात् । ततो यदन्वयव्यतिरेकानुविधायि कार्य तदेव तस्य कारणम् "नाननुकृत्वान्वयव्यतिरेकं कारणम् ।” [ ] इति वचनात् इति चेत् ; न; क्षणक्षयैकान्ते अन्वयव्यतिरेकस्यैवाघटनात् । ३४. न खलु समर्थे कारणे सत्यभावतः स्वयमेव पश्चादभवतस्तदन्वयव्यतिरेकानुविधानं नाम नित्यवत् । 'स्वदेशवत् स्वकाले सति समर्थे कारणे कार्य जायते नासति' इत्येतावता क्षणिकपक्षे अन्वयव्यतिरेकानुविधाने नित्येऽपि तत् स्यात् ; स्वकालेऽनाद्यनन्ते सति समर्थे नित्ये स्वसमये कार्यस्योत्पत्तेरसत्यनुत्पत्तेश्च प्रतीयमानत्वात् ।। ३५. सर्वदा नित्ये समर्थे सति स्वकाल एव कार्य भवत् कथं तदन्वयव्यतिरेकानुविधायीति चेत् ; तर्हि कारणक्षणात् पूर्व पश्चाच्चानाद्यनन्ते तदभावेऽविशिष्टे क्वचिदेव तदभावसमये भवत् कार्य कथं तदनुविधायीति समानम् । नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोऽनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत् ; क्षणिकस्य कथमिति समः पर्यनुयोगः । स हि क्षणस्थितिरेकोऽपि भावोऽनेकस्वभावो विचित्रकार्यत्वात् नानार्थक्षणवत् । $३६. न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादि' स्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकस्मात् प्रदीपादिक्षणात् वर्तिकादाहतेलशोषादिविचित्र कार्याणि शक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेरपि नानात्वं न स्यात् । १. रूप्यम्-रजतम् । २. एकद्रव्यान्वयाभावे । ३. तुलना-अष्टश. अष्टस. पृ० ८७ । ४. अन्वयव्यतिरेकानुविधानम् । 1. स्याद्वादादि क०, ख०। 2. स्थिराकारोऽपि ग। 3. विधायि तदेवस्य-क०, ख० । 4, -मावतः क० । 5. -णक्षयात् क०, ख० । 6. -मावे विशिष्टे क० । 7. रूपादे स्व-क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164