Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 120
________________ ४३] बौद्धशासन-परीक्षा $ ३७ ननु च शक्तिमतोऽर्थान्तरानान्तरपक्षयोः शक्तीनामघटनात्तासां' परमार्थसत्त्वाभावः; तर्हि रूपादीनामपि प्रतीतिसिद्धद्रव्यादर्थान्तरानान्तरविकल्पयोरसंभवात् परमार्थसत्त्वाभावः स्यात् । स्याद्वादिभिश्चित्रज्ञानवत् जात्यन्तरस्य शक्तिमतोऽर्थस्योपगमाच्च नोक्तदोषानुषङ्गः । ३८. अथ प्रत्यक्षबुद्धौ प्रतिभासमानत्वाद्रपादयः परमार्थसन्तो न पुनस्तच्छक्तयस्तासामनुमानबुद्धौ प्रतिभासमानत्वात् ; इत्यप्ययुक्तम् ; क्षणक्षयस्वर्गप्रापणशक्त्यादीनामपरमार्थसत्त्वप्रसंगात् । ततो यथा क्षणिकस्य युगपदनेककार्यकारित्वेऽप्येकत्वाविरोधस्तथा अक्षणिकस्य क्रमशोऽने ककार्यकारित्वेऽपीत्यनवा स्थिराकारोऽपि परमार्थ इति । $ ३९. तदेवं सकलनाधकाभावादप्रतिक्षेपार्हाणामार्हताभिमतानां स्थिरस्थूलसाधारणाकाराणां परमार्थत्वसिद्धेः अभ्रान्तेन तद्ग्राहिप्रत्यक्षेण स्वलक्षणलक्षणतत्त्वस्य विरुद्धत्वं सिद्धयत्येव । ४०. ननु नैष दोषः, सौगताभिमतस्वलक्षणतत्त्वस्य अवाच्यत्वादिति चेत् ; तदसंगतम् ; अवाच्यशब्देन स्वलक्षणतत्त्वस्य वाच्यत्वात् स्ववचनेनैव स्वप्रतिज्ञा हानेदर्शनात् । $ ४१. नन्ववाच्य शब्देनापि न स्वलक्षणस्वरूपमुच्यते तेनारोपितसामान्याकारस्यैवाभिधानादिति चेत्, व्याहतमेतत् । सामान्याख्यपररूपवाचिना अवाच्यशब्देन स्वलक्षणस्वरूपाभिधानस्य विरुद्धत्वात् नीलशब्देन पीताभिधानवत् । तदुक्तं युक्त्यनुशासने स्वामिभिः "अवाच्यमित्यत्र" च वाच्यभावादवाच्यमेवेत्ययथाप्रतिशम् । स्वरूपतश्चेत् पररूपवाचि स्वरूपवाचीति वचो विरुद्धम् ।" [युक्त्यनु० श्लो० २९ ] इति $ ४२. ततो नावाच्यतैकान्तः श्रेयानिति कथमपि प्रत्यक्षविरोधो दुःशकः परिहर्तुम् । तस्मात् सुव्यवस्थितेयं प्रतिज्ञा दृष्टविरुद्धं शाक्यशासनमिति । ४३. तथा ताथागतशासनमिष्टविरुद्धम् । तदभिमतक्षणक्षयैकान्तविरुद्धम्य आत्मादीनां कथंचिन्नित्यत्वस्यानुमानेन साधनात् । तथा हि-यत् सत् तत्सर्व कथंचिन्नित्यम् , सर्वथा क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् सत्त्वानुपपत्तेः' इति । अत्र न तावद्धेतोरनै कान्तिकत्वम् ; सर्वथा नित्यत्वे सत्त्वस्याभावात् , सर्वथा क्षणिकत्ववत् । तदभावश्च क्रमाक्रमानुपपत्तेः । तदनुपपत्तिश्च पूर्वीपरस्वभावत्यागोपादानान्वितरूपाभावात् ; सकृदनेकशक्त्यात्मकत्वाभावाच्च । न हि कूटस्थे पूर्वोत्तरस्वभावत्यागोपादाने स्स:; क्षणिके चान्वितं रूपमस्ति यतः क्रमः 'कालकृतो देशकृतो वा स्यात् । नापि युगपदनेकस्वभावत्वं यतो योगपद्यम्, कौटस्थ्यविरोधात्, सर्वथैकरूपत्वात् कूटस्थस्य । “एकरूपतया तु यस्त्रिकालव्यापी सः कूटस्थः" [ ] इत्यभिधानात्, निरन्वयक्षणिकत्वव्याघाताच्च, तथा क्रमाक्रमानेकान्तात्मकस्यैव सिद्धः। सहकारिक्रमाक्रमापेक्षया तत्र क्रमयोगपद्यकल्पनापि न साधीयसी; स्वयं तदपेक्षाक्रमेतरस्वभावत्वाभावे तदनुपपत्तेः । १. भेदाभेदपक्षयोः। २. शब्देन । ३. बौद्धे न कृता यत् शाक्यशासनं दृष्टाविरुद्वमिति । ४. नित्ये । ५. सहकार्यपेक्षा स्वयं तत्स्वभावस्यैव संभाव्यते । 1. -टनात्तानां पर-क०। . -लपाधारणाकारणां क.। 3. सिद्धिः क०, ख०। 4. -नैव प्रतिज्ञा क०. ख०। 5. नन्वाच्य- क०, खः। 6. -मित्यस्य ग०। 7. क्रम क०, ग०। 8. -तया तु यः कालव्यापि सकूटस्थः क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164