________________
४३]
बौद्धशासन-परीक्षा $ ३७ ननु च शक्तिमतोऽर्थान्तरानान्तरपक्षयोः शक्तीनामघटनात्तासां' परमार्थसत्त्वाभावः; तर्हि रूपादीनामपि प्रतीतिसिद्धद्रव्यादर्थान्तरानान्तरविकल्पयोरसंभवात् परमार्थसत्त्वाभावः स्यात् । स्याद्वादिभिश्चित्रज्ञानवत् जात्यन्तरस्य शक्तिमतोऽर्थस्योपगमाच्च नोक्तदोषानुषङ्गः ।
३८. अथ प्रत्यक्षबुद्धौ प्रतिभासमानत्वाद्रपादयः परमार्थसन्तो न पुनस्तच्छक्तयस्तासामनुमानबुद्धौ प्रतिभासमानत्वात् ; इत्यप्ययुक्तम् ; क्षणक्षयस्वर्गप्रापणशक्त्यादीनामपरमार्थसत्त्वप्रसंगात् । ततो यथा क्षणिकस्य युगपदनेककार्यकारित्वेऽप्येकत्वाविरोधस्तथा अक्षणिकस्य क्रमशोऽने ककार्यकारित्वेऽपीत्यनवा स्थिराकारोऽपि परमार्थ इति ।
$ ३९. तदेवं सकलनाधकाभावादप्रतिक्षेपार्हाणामार्हताभिमतानां स्थिरस्थूलसाधारणाकाराणां परमार्थत्वसिद्धेः अभ्रान्तेन तद्ग्राहिप्रत्यक्षेण स्वलक्षणलक्षणतत्त्वस्य विरुद्धत्वं सिद्धयत्येव ।
४०. ननु नैष दोषः, सौगताभिमतस्वलक्षणतत्त्वस्य अवाच्यत्वादिति चेत् ; तदसंगतम् ; अवाच्यशब्देन स्वलक्षणतत्त्वस्य वाच्यत्वात् स्ववचनेनैव स्वप्रतिज्ञा हानेदर्शनात् ।
$ ४१. नन्ववाच्य शब्देनापि न स्वलक्षणस्वरूपमुच्यते तेनारोपितसामान्याकारस्यैवाभिधानादिति चेत्, व्याहतमेतत् । सामान्याख्यपररूपवाचिना अवाच्यशब्देन स्वलक्षणस्वरूपाभिधानस्य विरुद्धत्वात् नीलशब्देन पीताभिधानवत् । तदुक्तं युक्त्यनुशासने स्वामिभिः
"अवाच्यमित्यत्र" च वाच्यभावादवाच्यमेवेत्ययथाप्रतिशम् । स्वरूपतश्चेत् पररूपवाचि स्वरूपवाचीति वचो विरुद्धम् ।"
[युक्त्यनु० श्लो० २९ ] इति $ ४२. ततो नावाच्यतैकान्तः श्रेयानिति कथमपि प्रत्यक्षविरोधो दुःशकः परिहर्तुम् । तस्मात् सुव्यवस्थितेयं प्रतिज्ञा दृष्टविरुद्धं शाक्यशासनमिति ।
४३. तथा ताथागतशासनमिष्टविरुद्धम् । तदभिमतक्षणक्षयैकान्तविरुद्धम्य आत्मादीनां कथंचिन्नित्यत्वस्यानुमानेन साधनात् । तथा हि-यत् सत् तत्सर्व कथंचिन्नित्यम् , सर्वथा क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् सत्त्वानुपपत्तेः' इति । अत्र न तावद्धेतोरनै कान्तिकत्वम् ; सर्वथा नित्यत्वे सत्त्वस्याभावात् , सर्वथा क्षणिकत्ववत् । तदभावश्च क्रमाक्रमानुपपत्तेः । तदनुपपत्तिश्च पूर्वीपरस्वभावत्यागोपादानान्वितरूपाभावात् ; सकृदनेकशक्त्यात्मकत्वाभावाच्च । न हि कूटस्थे पूर्वोत्तरस्वभावत्यागोपादाने स्स:; क्षणिके चान्वितं रूपमस्ति यतः क्रमः 'कालकृतो देशकृतो वा स्यात् । नापि युगपदनेकस्वभावत्वं यतो योगपद्यम्, कौटस्थ्यविरोधात्, सर्वथैकरूपत्वात् कूटस्थस्य । “एकरूपतया तु यस्त्रिकालव्यापी सः कूटस्थः" [ ] इत्यभिधानात्, निरन्वयक्षणिकत्वव्याघाताच्च, तथा क्रमाक्रमानेकान्तात्मकस्यैव सिद्धः। सहकारिक्रमाक्रमापेक्षया तत्र क्रमयोगपद्यकल्पनापि न साधीयसी; स्वयं तदपेक्षाक्रमेतरस्वभावत्वाभावे तदनुपपत्तेः ।
१. भेदाभेदपक्षयोः। २. शब्देन । ३. बौद्धे न कृता यत् शाक्यशासनं दृष्टाविरुद्वमिति । ४. नित्ये । ५. सहकार्यपेक्षा स्वयं तत्स्वभावस्यैव संभाव्यते ।
1. -टनात्तानां पर-क०। . -लपाधारणाकारणां क.। 3. सिद्धिः क०, ख०। 4. -नैव प्रतिज्ञा क०. ख०। 5. नन्वाच्य- क०, खः। 6. -मित्यस्य ग०। 7. क्रम क०, ग०। 8. -तया तु यः कालव्यापि सकूटस्थः क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org