________________
२८
प्रसंगात् ।
सत्यशासन-परीक्षा
[ ४४
$ ४४. तत्कार्याणां तदपेक्षा न पुनर्नित्यस्य क्षणिकस्य चेत्यपि न श्रेयः; तेषां तदकार्यत्व
$ ४५. तत्सहितेभ्यः सहकारिभ्यः कार्याणामुत्पत्तेः, अन्यथाऽनुत्पत्तेस्तत्कार्यत्वनिर्णयः इति चेत् तर्हि येन स्वभावेनैकेन सहकारिणा सहभावः तेनैव सर्वसहकारिणा यदि तस्य स्यात् तदैककार्यकरणे सर्वकार्यकरणात् क्रमकार्यानुत्पत्तिः । सहकार्यन्तराभावेऽपि च तत्सहभावात् सकृदेव सकलकार्योत्पत्तिः प्रसज्येत । स्वभावान्तरैः सहकार्यन्तरसहभावे तस्य क्रमाक्रमवृन्यनेकस्वभावत्वसिद्धेः कुतो नित्यमेकत्वस्वभाव र क्षणिकं वा वस्तु क्रमयौगपद्ययोर्व्यापकं स्यात्, कथंचिन्नित्यस्यैव क्रमाक्रमानेकस्वभावस्य तदूव्यापकत्वप्रतीतेः ।
$ ४६. एतेन विपक्षे हेतोर्बाधकस्य व्यापकानुपलम्भस्य व्यतिरेकनिश्चयः कथंचिन्नित्ये प्रत्यक्षप्रवृत्तेः प्रदर्शितः प्रत्येयः । ततः सत्यं कथंचिन्नित्यमेव साधयतीति सिद्धं शौद्धोदनिशासनमिष्टविरुद्धमिति ।
$ ४७. तथा च
शुभाशुभानुष्ठान-पुण्य-पाप-श्वभ्र-स्वर्गादि-परलोक -बन्ध--बन्धकारणमोक्ष -मोक्षकारण बन्धमोक्ष फल- बद्ध-मुक्तादिपरोक्षतत्कारणस्वरूपप्रतिपादकोऽपि बौद्धागमो न प्रमाणम्; दृष्टेष्टविरुद्धागमसमकर्तृकस्य तस्यातीन्द्रिये 'प्वतितरामप्रामाण्यापत्तेरिति न बौद्धानां धर्मानुष्ठानं प्रतिष्ठामियर्ति । किंबहुना, बौद्धैर्ययदभिधीयते तत्सर्वमसदेव तदभिमतसर्वतत्त्वस्य शून्यत्वात् ।
I
$ ४८. तथा हि विकल्पोऽभिलापसंबन्धार्थग्रहणरूपः परैरिष्टः । स च नास्त्येव । न हि तावद्विषयस्याभिलापेन तद्गतेनैव संबन्धः, तत्र तदभावात् । स्मरणोपनीतेन 7 संकेतकालप्रतिपन्नेनेति चेत्; न; स्मरणस्य निर्विकल्पकत्वे तद्विषयस्य स्वलक्षणत्वे न क्वचिदुपनयनानुपपत्तेः । व्यवसायरूपत्वे च तेनापि स्वविषयोऽभिलापसंबन्ध एव स्मर्त्तव्यः । तदभिलापोऽपि तथाविध एव तत्स्मरणेनेत्यनवस्थितिप्रसंगात् । स्मरणस्य तदनभिसंबन्ध 'वस्तुवेदित्वेऽपि व्यवसायस्वभावत्वे प्रत्यक्षस्यापि तत्किं न स्यात्, "स्वाभिधानविशेषापेक्षया एवार्थी निश्चयैव्र्व्यवसीयन्ते' इत्येकान्तत्यागात् । नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् ।
४९. एवमनवस्थादिदोषोपनिपातान्नामस्मरणोभावेन क्वचिद्विकल्पा न 10 सिद्धयेत् । स्मरणो पनीतनामसंबद्धार्थग्रहणस्यैव 11 विकल्पत्वात् । विकल्पाभावेन न क्वचित्प्रत्यक्षम् | अकृतविकल्पेन प्रत्यक्षेण बहिरन्तर्वा गृहीतस्याप्यगृहीतकल्पत्वात् क्षणक्षयादिसंवेदनवत् । प्रत्यक्षाभावे न क्वचिदनुमानम् 14 प्रत्यक्षपूर्वकत्वात्तस्येति सकलप्रमाणाभावः । तदभावे सकलप्रमेयाभावः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेरिति सौगताभिमतं सर्वं तत्त्वं शून्यमेव स्यात् ।
१. क्रमाक्रमयोन्यपिकयोरनुपलम्भः । २. "विकल्पो नाम संश्रयः " [ प्र० वा० २।१२३ ] इत्यभिधानात् । ३. प्रमाणाभावे ।
1. - मेकस्व, ग० 2. भावा क० । 3. 5. - पति क०, ख० । 6. प्रामाण्योपपत्तेरि- क०, ख० । 9. साभि - क०, ख० । 10. कल्पः सिद्धयेत् ग० ।
ख० । 13. 'न' ख प्रतौ नास्ति । 14. - मानप्रत्यक्षकत्वात् क०, स० ।
Jain Education International
सत्त्वम् क०, ख० । 1 7.
नीते सं. ख० । 5 11. संबन्धार्थ - ग० ।
For Private & Personal Use Only
-मोक्षबद्ध ख० । संबद्ध क०, ख० । 12. विकल्पात् क०,
www.jainelibrary.org