Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 100
________________ - ३३ ] परब्रह्माद्वैतशासन-परीक्षा $ ३०. न च परोपगममात्रात्तयोर्बाध्यबाधकभावः, 'परमार्थतस्तदभावापत्तेः । ततः सकलबाधकाभावात् अभ्रान्तेन प्रत्यक्षेण प्रसिद्धोऽयं भेदः कथमद्वैतं न विरुन्ध्यात् । तयोः परस्परविरोधात् । तत एव भेदमद्वैतं विरुन्ध्यादिति चेत्; न; अद्वैतस्याभ्युपगममात्रत्वात्, तत्साधकप्रमाणाभावस्य प्रागेवोक्तत्वात् भेदस्य च प्रमाणसिद्धत्वात् तद्ग्राहिप्रत्यक्षस्य बाधकाभावात्, अभ्रान्तत्वेन साधितत्वात् । नहि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि, क्षणिकाभ्युपगमवत् । तदेवं * सकलबाधकवैधुर्यादभ्रान्तप्रत्यक्षप्रसिद्ध क्रियाकारकभेदः, सोऽयमद्वैतैकान्तपक्षे विरुध्यत एवेति सिद्धं परमब्रह्माद्वैतशासनं प्रत्यक्षविरुद्धमिति । तदुक्तं श्रीस्वामिसमन्तभद्राचार्यैः "कान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात् प्रजायते ॥ " $ ३१. एतेनैव इष्टविरुद्धं ' चाद्वैतशासनम् । उक्तं च अद्वैतसाधकानुमानागमाभ्यां द्वैतस्य सिद्धेरुक्तत्वात् । अद्वैतशब्दः " स्वाभिधेयप्रत्यनीकपरमार्थापेक्षः, नञ् पूर्वाऽखण्डपदत्वात् ; 'अहेत्वभिधानवत्' इत्यनुमानविरोधाच्च । तदप्युक्तं भगवद्भिः स्वामिभिः " श्रद्वैतं न विनाद्वैतादहेतुरिव हेतुना । संशिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥” ७ [ आप्तमी० श्लो० २४ ] इति [ आप्तमी० लो० २७ ] इति $ ३२. तथा ब्रह्मवादिनां धर्मानुष्ठानं न प्रतिष्ठामियर्ति, तेषां पुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षासंभवात्, तत्त्वोपप्लववादिवत् । तथैव स्वामिनः प्राहुः - Jain Education International "कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याऽविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ॥” $ ३३. एतेन यदुक्तं वेदान्तवादिभिः 'एकमेव ब्रह्म नानात्मतया दृश्यते, ब्रह्मविवर्ताः पृथिव्यादयः, ब्रह्मप्राप्तिर्मोक्षः, श्रवणादिभिः " ब्रह्मसाक्षात्कार' इत्यादि, तत्सर्वं बन्ध्या स्तनन्धयसौरूप्यव्यावर्णनवदुपेक्षामर्हति, केनापि प्रमाणेन ब्रह्मसिद्धेरभावात्, अन्यथा प्रमाणप्रमेयेंद्वैतप्रसंगात् । भ्रान्तेन प्रमाणेन तत्सिद्धौ स्वप्नोपलब्धधूमादिना परमार्थपावकादिसिद्धिप्रसंगात् । चन्द्रमरीचिजालसन्निधिविशेषात् परिणमज्जल 1° पुद्गलविकारत्वात् परमार्थेनैव प्रतिबिम्बेन चन्द्रप्रतिपत्तेः । भ्रान्तेन प्रमाणेन प्रमाणमन्तरेण वा ब्रह्माद्वैतसिद्धौ तथा द्वैत- नैरात्म्यादिसिद्धिरपि दुर्निवारा स्यात् । तथा'' द्वैताऽद्वैतयोर्बाधक साधकाभावाद्वेदान्तिनां दृष्टहानिरदृष्टकल्पनेयं केवलमुपहासाय जायते । [ आप्तमी० श्लो० २५ ] इति १. भेदाभेदयोः । २. तुलना - अष्टस०, १६१ । ३. “ एष बन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥" इत्यादि व्यावर्णनवत् । ४. रूपेण द्वैतप्रसङ्गात् । For Private & Personal Use Only 1. परमार्थः ग० । 2. - तं विरु० क०, ग० । 3. - वोक्तत्वात्तस्य च ग० । 4. -क बैधुर्या० ख०, ग० । 5. ग० प्रतौ 'च' नास्ति । 6. मानाभ्यां क०, ख० । 7. सामिधेय ख० । 8. श्रवणादिना परमार्थमिः ब्रह्म० ग० । 9. - मेयप्रस० क०, ख० । 10. - मज्वलपु० ख० । 11 ततो ख०, ग० । www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164