________________
- ३३ ]
परब्रह्माद्वैतशासन-परीक्षा
$ ३०. न च परोपगममात्रात्तयोर्बाध्यबाधकभावः, 'परमार्थतस्तदभावापत्तेः । ततः सकलबाधकाभावात् अभ्रान्तेन प्रत्यक्षेण प्रसिद्धोऽयं भेदः कथमद्वैतं न विरुन्ध्यात् । तयोः परस्परविरोधात् । तत एव भेदमद्वैतं विरुन्ध्यादिति चेत्; न; अद्वैतस्याभ्युपगममात्रत्वात्, तत्साधकप्रमाणाभावस्य प्रागेवोक्तत्वात् भेदस्य च प्रमाणसिद्धत्वात् तद्ग्राहिप्रत्यक्षस्य बाधकाभावात्, अभ्रान्तत्वेन साधितत्वात् । नहि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि, क्षणिकाभ्युपगमवत् । तदेवं * सकलबाधकवैधुर्यादभ्रान्तप्रत्यक्षप्रसिद्ध क्रियाकारकभेदः, सोऽयमद्वैतैकान्तपक्षे विरुध्यत एवेति सिद्धं परमब्रह्माद्वैतशासनं प्रत्यक्षविरुद्धमिति । तदुक्तं श्रीस्वामिसमन्तभद्राचार्यैः
"कान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते ।
कारकाणां क्रियायाश्च नैकं स्वस्मात् प्रजायते ॥ "
$ ३१. एतेनैव इष्टविरुद्धं ' चाद्वैतशासनम् । उक्तं च अद्वैतसाधकानुमानागमाभ्यां द्वैतस्य सिद्धेरुक्तत्वात् । अद्वैतशब्दः " स्वाभिधेयप्रत्यनीकपरमार्थापेक्षः, नञ् पूर्वाऽखण्डपदत्वात् ; 'अहेत्वभिधानवत्' इत्यनुमानविरोधाच्च । तदप्युक्तं भगवद्भिः स्वामिभिः
" श्रद्वैतं न विनाद्वैतादहेतुरिव हेतुना । संशिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥”
७
[ आप्तमी० श्लो० २४ ] इति
[ आप्तमी० लो० २७ ] इति $ ३२. तथा ब्रह्मवादिनां धर्मानुष्ठानं न प्रतिष्ठामियर्ति, तेषां पुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षासंभवात्, तत्त्वोपप्लववादिवत् । तथैव स्वामिनः प्राहुः -
Jain Education International
"कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याऽविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ॥”
$ ३३. एतेन यदुक्तं वेदान्तवादिभिः 'एकमेव ब्रह्म नानात्मतया दृश्यते, ब्रह्मविवर्ताः पृथिव्यादयः, ब्रह्मप्राप्तिर्मोक्षः, श्रवणादिभिः " ब्रह्मसाक्षात्कार' इत्यादि, तत्सर्वं बन्ध्या स्तनन्धयसौरूप्यव्यावर्णनवदुपेक्षामर्हति, केनापि प्रमाणेन ब्रह्मसिद्धेरभावात्, अन्यथा प्रमाणप्रमेयेंद्वैतप्रसंगात् । भ्रान्तेन प्रमाणेन तत्सिद्धौ स्वप्नोपलब्धधूमादिना परमार्थपावकादिसिद्धिप्रसंगात् । चन्द्रमरीचिजालसन्निधिविशेषात् परिणमज्जल 1° पुद्गलविकारत्वात् परमार्थेनैव प्रतिबिम्बेन चन्द्रप्रतिपत्तेः । भ्रान्तेन प्रमाणेन प्रमाणमन्तरेण वा ब्रह्माद्वैतसिद्धौ तथा द्वैत- नैरात्म्यादिसिद्धिरपि दुर्निवारा स्यात् । तथा'' द्वैताऽद्वैतयोर्बाधक साधकाभावाद्वेदान्तिनां दृष्टहानिरदृष्टकल्पनेयं केवलमुपहासाय जायते ।
[ आप्तमी० श्लो० २५ ] इति
१. भेदाभेदयोः । २. तुलना - अष्टस०, १६१ । ३. “ एष बन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥" इत्यादि व्यावर्णनवत् । ४. रूपेण द्वैतप्रसङ्गात् ।
For Private & Personal Use Only
1. परमार्थः ग० । 2. - तं विरु० क०, ग० । 3. - वोक्तत्वात्तस्य च ग० । 4. -क बैधुर्या० ख०, ग० । 5. ग० प्रतौ 'च' नास्ति । 6. मानाभ्यां क०, ख० । 7. सामिधेय ख० । 8. श्रवणादिना परमार्थमिः ब्रह्म० ग० । 9. - मेयप्रस० क०, ख० । 10. - मज्वलपु० ख० । 11 ततो ख०, ग० ।
www.jainelibrary.org