________________
सत्यशासन-परीक्षा
[ ३४
$ ३४. किं च, यद्येकमेव परब्रह्मास्ति तर्हि तदेव कुतो न प्रतीतिपथमवतरति, यदि वा प्रपञ्चः खरविषाणवदभावरूपः कुतस्तर्हि स एव 'अहमहमिकतया प्रतीतिपथमापनिपद्यते " इति पृष्टः स्पृष्टमाचष्टां परः अविद्यया तथेति चेत्, तदसत्; अविद्याया एव परोपवर्णितस्वरूपाया व्यवस्थापयितुमशक्तेः, विकल्पानतिक्रमात् । अविद्याया असत्त्वे, मिथ्याप्रतीतिहेतुत्वानुपपत्तेः, सत एव अष्ट-दोष -संस्कार - " यन्त्र-मन्त्र-तन्त्रादेः स्वप्न्द्रजालादिमिथ्याप्रतीतिहेतुत्वप्रतिपत्तेः । तस्याः सद्रूपत्वे द्वैतसिद्धिः' प्रसक्तेरिति । अविद्यायाः सदसत्त्वाभ्यामनिर्वाच्यत्वे कथम् 'अविद्या संसारदशायामस्ति, संसारस्याऽविद्याविलासत्वात्; मुक्तिदशायां तु नास्ति, मुक्त रविद्यानिवृत्तिरूपत्वात् ' इति शिष्यं प्रति प्रतिपाद्येत । तदा तस्याः सदसत्त्वाभ्यां वाच्यत्वसंभवात् । तथा चाप्रतिपादने विनेयानां कथं मोक्षाय प्रवृत्तिः, संसारमोक्षस्वरूपानवबोधात् । 'अनिर्वाच्या विद्या' इत्यविद्या स्वरूपकथनमिदं स्ववचनविरुद्धम् -
૨
" यावज्जीवमहं मौनी ब्रह्मचारी च मत्पिता । माता मम भवेद्वन्ध्या स्मराभोऽनुपमो भवान् ॥”
८
[
J
इत्यादि वचनवत् । अनिर्वाच्यशब्देना विद्यानभिधाने चानर्थकवचनतया निग्रहस्थानत्वापत्तेः । $ ३५. ननु वस्तुन्येव प्रमाणप्रवृत्तिर्नावस्तुनि । ततोऽस्माभिर्वस्तुवृत्तमपेक्ष्याविद्या 10 व्यवस्थाप्यते । तदुक्तम्-
"ब्रह्मविद्यावदिष्टं चेन्ननु दोषो महानयम् । निरवद्ये 11 च विद्याया आनर्थक्यं प्रसज्यते ॥ नाविद्यास्येत्यविद्यायामेवासित्वा प्रकल्प्यते । 12 ब्रह्म [धारा]त्वविद्येयं न कथञ्चन युज्यते ॥ यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्थविज्ञान-ध्वस्ता साप्यन्यथात्मता 13 ॥ ब्रह्मण्यविदिते 14 बाधान्नाविद्येत्युपपद्यते । नितरां चापि विज्ञाते 15 मृषा [धी ]र्नास्त्यबाधिता ।। विद्यावानविद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतोऽपेक्ष्य 16 ना विद्येति निरूप्यते ॥ वस्तुनोऽन्यत्र मानानां व्यापृत्तिर्नहि युज्यते । अविद्या च न वस्त्विष्टं मानाघाता सहिष्णुतः ॥ अविद्याया श्रविद्यात्वे इदमेव च लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यते ।।"
Jain Education International
१. पुण्यपापरूपकर्म । २ अविद्यायाः । ३. भवान् स्मरामः कामतुल्यकान्तिः तथापि अनुपमः उपमारहितः इति स्ववचनविरुद्धम् ।
1. परमब्रह्मास्ति ख०, ग० 12 - तिप्रथम० क०, ख० । 3. - मापनीपद्यते क० । 4. -ति पृष्टमाचष्टां क०, ग० । 5. श्रविद्याया क० । 6. - दोषयन्त्र क०, ख० । 7. द्वैतप्रसिद्धिः ग० । 8. तथा ग० । 9. वस्तुनैव क०, ख० । 10. -मपेक्षावि० क०, ख० । 11. निरविद्ये क०, ग० । 12. ब्रह्माद्वारात्व० क०, ख०, ग० । 13. -थात्मना ख० । 14. विधीते क० । 15 मृषादेर्नास्ति क० । मृषादिर्नास्ति ग० । 16. मस्तुवृत्तमतौपेक्ष ना० क० | 17. -रण इष्यते क०, ख० ।
[ संबन्धवा० श्लो० १७५-८१ ]
For Private & Personal Use Only
www.jainelibrary.org