________________
४१]
परब्रह्माद्वैतशासन-परीक्षा ३६. न चैवमप्रामाणिकायामविद्यायां कल्प्यमानायां कश्चिद्दोषः, तस्याः संसारिणः स्वानुभवाश्रयत्वात् । द्वैतवादिन एव दृष्टादृष्टार्थप्रपञ्चस्य प्रमाणबाधितस्य कल्पनायामनेकविधायां बहुविधदोषानुषंगात् । तदप्युक्तम्---
"त्वत्पक्षे बहुकल्प्यं स्यात् सर्व मानविरोधि च । कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया ॥"
[संबन्धवा० श्लो० १८२ ] इति ३७. इति कश्चित् , सोऽपि न प्रेक्षावान् , सर्वप्रमाणातीतस्वभावायाः स्वयमविद्यायाः स्वीकरणात् । नहि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपामविद्यां विद्यां वा स्वीकुरुते ।।
६३८. न च प्रमाणानामविद्याविषयत्वमयुक्तम् ; विद्यावदविद्याया अपि कथंचिद् वस्तुत्वात् । तथा विद्यात्वप्रसंगः, इति चेत् ; न किंचिदनिष्टम् “यथा यत्राविसंवादस्तथा तत्र प्रमाणता।" [ सिद्धिवि० ११६ ] इत्यकलङ्कदेवैरप्युक्तत्वात् । बहिःप्रमेयापेक्षया तु कस्यचित् संवेदनस्याविद्यात्वं बाधकप्रमाणावसेयं कथमप्रमाणविषयः, तद्बाधकं पुनरर्थान्यथात्वसाधकमेव प्रमाणमनुभूयत इति वस्तुवृत्तमपेक्ष्यैवाविद्या निरूपणीया।
$ ३९. न च कथंचिद्विद्यावतोऽप्यात्मनः प्रतिपत्तुरविद्यावत्त्वं विरुध्यते यतोऽयं महान् दोषः स्यात् । नाप्यविद्याशन्यत्वे कथंचिद्विद्यानर्थक्यं प्रसज्यते, तत्फलस्य सकलविद्यालक्षणस्य भावात् ।
$ ४०. न चाविद्यायामेव स्थित्वा 'अस्येयमविद्या' इति प्रकल्प्यते, सर्वस्य विद्यावस्थायामेव अविद्येतरविभागविनिश्चयात् ', स्वप्नाद्यविद्यादशायां तदभावात् । ततश्चात्माद्वारैवाविद्या अयुक्तिमती । यस्मादनुभवात् 'अविद्यावानहमस्मि' इत्यनुभववानात्मा तत् एव कथंचित् प्रमाणोत्थविज्ञानाबाधितादविद्यापि ° सैवेत्यात्मताविरोधाभावात् । न चात्मनि कथंचिद् 10 विदितेऽप्यविद्येति नोपपद्यते, बाधाविरोधात् । कथंचिद्विज्ञातेऽपि वाऽविद्येति नितरां घटते । विदितात्मन एव तवाधकत्वविनिश्चितेः कथंचिद्बाधिताया बुद्धमृषात्वसिद्धेः ।
$ ४१. न च कथंचिदविद्यावानेव नरस्तामविद्यां निरूपयितुं क्षमः, सकलप्रेक्षावद् व्यवहारविलोपात् । यदपि प्रमाणाघातासहिष्णुत्वमसाधारणं लक्षणमविद्यायाः, तदपि प्रमाणसामर्थ्यादेव निश्चेतव्यमिति11 न प्रमाणातिक्रान्ता काचिदविद्या नाम, यदभ्युपगमे ब्रह्माद्वैतं न विरुद्धयते ।
- [इति पुरुषाद्वैतशासनपरीक्षा ]
१. तुलना-अष्टसह. पृ० १६२-१६३ ।
1. कल्प० क० । 2. कल्पनाम० क०। 3. सानुभ० क० । 4. -मविद्यां वा ग०। 5. महादोषः ख०। 6. लक्षणभावात् खः। 7. -गनिश्च० क०। 8. -वाना ततः खः। 9. सैरेत्या. ख०। 10. विधीयतेप्य. क०। 11. निश्चि० क० । 12. चिरुद्धत् ग० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org