________________
६
[ २५ -
चत्' । क्वचिदात्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्वनात्माभिमतेषु च विधानात् । द्वैतप्रपञ्चारो' पव्यवच्छेदेऽपि तदागमाद् व्यचच्छेद्यव्यवच्छेद 'कसद्भावसिद्धेः कथमद्वैतसिद्धिः ? आम्नायस्य परमब्रह्मस्वभावत्वे न ततस्तद द्वैतसिद्धिः 4 | स्वभाव -स्वभाववतोस्तादात्म्यैकान्तानुपपत्तेः।
सत्यशासन-परीक्षा
$ २५. अथ स्वसंवेदनमेव पुरुषाद्वैतसाधकमिति चेत्; न; स्वसंवेदनात्मनोद्वैतप्रसंगात् । न हि स्वसंवेदनमपि साधनमात्मनोऽनन्यदेव; साधनत्वविरोधात्, अनुमानागमवत् साध्यस्यैव साधनत्वोपपत्तेः, प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधन [त्व ] स्याभावात् ।
5
$ २६. न च पुरुषाद्वैतं स्वतः सिद्ध्यति, विज्ञानाद्वैतवत्, स्वरूपस्य स्वतोगतेरभावात्, अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् ', विज्ञानाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसंगाचें ।
$ २७. ननुं विज्ञानाद्वैतं न स्वतोऽवसीयते, तस्य क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावादिति चेत्; न, पुरुषाद्वैतस्यापि नित्यस्य सकलकालकलाकलाप - व्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया सकृदप्यनुभवाभावाऽविशेषात् " । 'स्वतः सिद्धं ब्रह्म' इत्युपगमे; द्वैतमपि स्वतः सकलसाधनाऽभावेऽपि किं न सिद्ध्येत्; तत्त्वोपप्लवमात्रं वा नैरात्म्यं वा "स्वाभिलापमात्राविशेषात् ? सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एवं " परब्रह्मसाधकस्य कस्यचिदपि प्रमाणस्याभावात् भेदग्राहिप्रत्यक्षस्य बाधकाभावो व्यवतिष्ठत एव, 11 एतदन्यस्यापि बाधकस्य अयोगात् ।
०
$ २८. स्यादाकूतम् --विवादापन्नं प्रत्यक्षादि मिथ्यब, भेदप्रतिभासत्वात्, स्वप्न प्रत्यक्षादिवदिति; तदसत् ; प्रकृतानुमाने पक्ष हेतु दृष्टान्तभेदप्रतिभासस्याऽमिथ्यात्वे तेनैव हेतोर्व्यभिचारात् । तन्मिथ्यात्वे तस्मादनुमानात् साध्याऽप्रसिद्धेः । पराभ्युपगमात् पक्षादिभेदप्रतिभासस्याऽमिथ्यात्वेऽपि न दोषः इति चेत्; न; स्वपराभ्युपगमभेदप्रतिभासेन व्यभिचारात् । तस्यापि पराभ्युपगमान्तराद13 मिथ्यात्वाद्दोषाभावे स एव तद्भेदप्रतिभासेन व्यभिचारः 1 4 इति न क्वचिद्व्यवतिष्ठेत् ।
14
$ २९. कश्चिदाह - ब्रह्माद्वैतस्यामिथ्यास विन्मात्रस्य 4 5 स्वतः सिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां 1' बाधकस्याभावात्तेषां भ्रान्तत्वं ततो न तद्विरोधकत्वमिति; तदपि न साधीय:, तथा सति बाध्यबाधकयोर्भेदात्, द्वैतसिद्धिप्रसंगात् ।
Jain Education International
2
१. यथा सर्वथाऽप्रसिद्धं खरविषाणादि न विधीयते । २. - तुलना - "तद्धि संवेदनाद्वैतं न तावत्स्वतः सिद्ध्यति पुरुषाद्वैतवत्, स्वरूपस्य स्वतोगतेरभावात्, अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात्, पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसङ्गाच्च ।” – आप्तप० पृ० १८२ । ३. - तुलना-"ननु च पुरुषाद्वैतं न स्वतोऽवसीयते, तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततथा वाऽनुभवाभावादिति चेत्; न, संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावाविशेषात् ।" - श्राप्तप० पृ० १८२ । ४. यथा हि विज्ञानाद्वैतवादिनोक्तम् - "स्वरूपस्य स्वतोगतेः " [ प्र० वा० १।५ ] इति नोपपद्यते तथैव । ५. कथं न सिद्धयेत् ? ६. क्रियाकारकादीनाम् ।
1. – रोपो व्य-क०, ख० । 2. - माद् ब्यवच्छेदक - ग० 13. - तद्द्वैत० ख० । 4. क० प्रतौ इयं पंक्तिर्नास्ति । 5. – रेव क० । 6. - तिरयो० क०, ख० । 7. क० प्रतौ न च पुरुषद्वैतं इत्यस्मात् पदादारभ्य ....अविशेषात्' इति पर्यन्तं पाठो नास्ति । 8. मात्रविशे० क०, ख० । १. परमब्रह्म ख०, ग० । 10. - प्रत्यक्ष ख० । 11. तदन्यस्यापि ग० । 12. - खेनैव । 13. मिथ्याहो ० क०, ख० । 14. तद्भेदेन व्यभि० ख० | 15. द्वैतस्य संवि० ख० । 16. - कस्यभावात् ख० ।
For Private & Personal Use Only
www.jainelibrary.org