________________
- २४]
परब्रह्माद्वैतशासन-परीक्षा प्रतिभासान्तःप्रविष्टत्वेन पुरुषाद्वैतसिद्धौ हेतुसाध्यद्वैतस्य दुर्निवारत्वात् । तदुक्तं स्वामिसमन्तभद्राचार्य:
"हेतोरद्वैतसिद्धिश्चेत् द्वैतं स्याद्धेतुसाध्ययोः। हेतुना चेद्विना सिद्धिद्वैतं वाङ्मावतो न किम् ॥"
. [आप्तमी० श्लो० २६ ] इति २१. ननु हेतोरद्वैतसिद्धावपि न हेतुसाध्ययोद्वैतं भविष्यति, तादात्म्योपगमात् । न च तादात्म्ये साध्यसाधनयोस्तद्भावविरोधः; सत्त्वानित्यत्वयोरपि तथा भावविरोधानुषंगात् । कल्पनाभेदादिह साध्यसाधनधर्मभेदे प्रकृतानुमानेऽपि कथमविद्योपकल्पितहेतुसाध्ययोस्तद्भावविघातः; सर्वथाविशेषाभावादिति चेत्, न; शब्दादौ सत्त्वानित्यत्वयोरपि कथंचित्तादात्म्यात्सर्वथातादात्म्यासिद्धेः, तत्सिद्धौ साध्यसाधनभावविरोधात् । न चासिद्धमुदाहरणं नाम, अतिप्रसङ्गात् । किं च न सम्यगिदं साधनं विरुद्धत्वात्, प्रतिभास-तद्विषयाभिमतयोः कथञ्चिद्भ दे सति समानाधिकरणत्वस्य प्रतीतेः सर्वथा प्रतिभासान्तः प्रविष्टत्वाऽसाधनात् स्वविषयस्य । न हि 'शुक्ल: पटः' इत्यादावपि सर्वथा गुणद्रव्ययोस्तादात्म्ये सामानाधिकरण्यमस्ति, सर्वथाभेदवत् । 'प्रतिभासस्वरूपं प्रतिभासते' इत्यत्रापि न प्रतिभासा तत्स्वरूपयोर्लक्ष्यलक्षणभूतयोः सर्वथा तादात्म्यमस्ति; प्रतिभासस्य साधारणाऽसाधारणधर्माधिकरणस्य स्वस्वरूपादसाधारणधर्मात् कथञ्चिद्भदप्रसिद्धेः, अन्यथा तत्सामानाधिकरण्यायोग्यात्11 'सुवर्ण सुवर्णम्' इति यथा, सह्यविन्ध्यवद्वा12 । तदेवं13 यत् प्रतिभाससमानाधिकरणं तत्प्रतिभासात् कथञ्चिदर्थान्तरम् ; यथा प्रतिभासस्वरूपम् । प्रतिभाससमानाधिकरणं च सुखनीलादि सर्वमिति साध्यविपरीतसाधनात् हेतो द्वैतसिद्धिः।
२२. अथागमम्तत्साधकोऽस्त्येव “सर्व वै स्खल्विदं ब्रह्म' [ मैत्रा० ४।६] इत्याद्यागमस्य परमब्रह्मसाधकस्य सद्भावादिति चेत् , तदपि स्ववधाय कृत्योत्थापनमेव, अद्वैत-तदागमयोद्वैतप्रसंगात् ।
२३. यदि पुनरागमोऽप्यद्वयपुरुषस्वभाव एव न ततो व्यतिरिक्तो येन द्वैतमनुषज्यते इति मतम् ,
"ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥"
[भगवद्गी० १५।१] इति वचनात् । तदा14 ब्रह्मवत्तदागमस्याप्यसिद्धत्वं15 स्यात् , 16सर्वथाप्यसिद्धस्वभावस्य सिद्धत्वविरोधात् , सिद्धाऽसिद्धयोर्भेदप्रसक्तेः ।
२४. किंच "सर्व वै खल्विदं ब्रह्म" [ मैत्रा० ४।६ ] इत्याद्याम्नायादपि द्वैतसिद्धिरेव स्यात्, सर्वस्य प्रसिद्धस्याऽप्रसिद्धेन ब्रह्मत्वेन विधानात् । सर्वथा प्रसिद्धस्य 1"विधानायोगादप्रसिद्ध
१. सत्त्वमसत्वव्यावृत्त्यात्मकम् , अनित्यत्वञ्च नित्यव्यावृत्त्यात्मकमिति व्यावृत्तिभेदात्तयोमेंदे ।
1.-प्रतिविष्टत्वेन क०। 2. सर्वथाविशेषादिति का। 3. सत्या क०, ख०। 4. -नित्ययोः ग०। 5. कथंचित्तादात्म्यासिद्धेः कः। 6. तद्विषायाभि-क०। 7. प्रतिभासतः ग०। 8. इत्यादिनावपि क०, ख०। 9. सामाधिकरण्यमस्ति क०।10. प्रति तत् क०। 11. योगात् ख०। 12. विन्ध क०। 13. तदेव ग०। 14. तथा क०, ख०। 15. -मस्यासि-ग०। 16. सर्वप्य क० । 17. विधानयोगात् क०, ख०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org