Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 113
________________ [बौद्धशासन-परोक्षा] $ १. तथा ताथागतशासनमपि दृष्टेष्टविरुद्धम् । एवं हि सर्वभावानां क्षणभङ्गसंगममेवाङ्ग शृङ्गारमङ्गीकुर्वाणास्ताथागताः संगिरन्ते-रूपादिपञ्चस्कन्धा एव तत्वानि । रूपरसगन्धस्पर्शपरमाणवः सजातीयविजातीयव्यावृत्ताः परस्पराऽसंबद्धा रूपस्कन्धाः । सुखदुःखादयो वेदनास्कन्धाः । सविकल्पकनिर्विकल्पकज्ञानानि विज्ञानस्कन्धाः । "जाति-क्रिया-गुण-द्रव्यसंज्ञा पञ्चैव कल्पनाः । अश्वो याति सितो घण्टिक' तदाख्येति यथाक्रमम् ॥ __] इति इत्येतस्कल्पनासहितं सविकल्पकम् , तद्रहितं निर्विकल्पकम् । तथा वृक्षादिनामानि संज्ञा स्कन्धाः । ज्ञानपुण्यपापवासनाः संस्कारस्कन्धाः इति । रूपवेदनाविज्ञानसंज्ञासंस्कारा इति पञ्च स्कन्धाः । २. तेषु च पूर्व-पूर्वचित्तविशेषप्रभवा उत्तरोत्तरचित्तक्षणा उपादानोपादेयरूपेण सजात्युत्तरक्षणं जनयन्त:5 परस्परासंपृक्ता निरन्वयप्रतिक्षणविशरारवो निरंशाश्च भ्रान्तिवशात् ग्राह्य-ग्राहकसंवेदनाकारत्रयाक्रान्ता "विजातीयाऽव्यवधानलघूत्पत्ति-सदृशापरापरोत्पत्तिविप्रलब्धबुद्धेः संतानरूपेण वर्तमाना आत्माभिधानं जनयन्ति । तत्रैकत्वप्रत्यभिज्ञानमपि लूनपुनर्जातनखकेशादौ पूर्वापरैकत्वाभावेऽपि दर्शनान्नित्यत्वसमर्थनाय नालमिति त्रिकालानुयाय्ये कत्वरहिता एव वर्तन्ते; किंतु ज्ञान-वैराग्यभावनातिशयवशादविद्यातृप्णाविगमे निःशक्तिकानामुत्तरोत्तरविज्ञानक्षणमजनयतां निरन्वयविनाशेन संतानोच्छित्तिर्मोक्षः । “प्रदीपनिर्वाणकल्पमात्मनिर्वाणम्'' [ ] इति वचनात् । तदुक्तम् "क्षणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः । दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिताः1 ।।'' ] इति । ३. तस्य च मोक्षम्योपायः काषायचीवरपरिधानशिरस्तुण्डमुण्डनब्रह्मचर्यधारणादयः । तथैव दुःखसमुदयनिरोधमार्गणा इति चत्वारः पदार्थाश्चतुरार्यसत्याभिधाना मुमुक्षुभिर्ज्ञातव्याः । ४. तत्र सहज-शारीर-मानसागन्तुकानि दुःखानि । तत्र सहजं क्षुत्तृप्णा-मनोभूभयादिकम् । शारीरं वात-पित्त-पीनसानां वैषम्यसंभूतम् । मानसं धिक्कारावजेच्छा विघातादिजनितम् । आगन्तुकं शीतवातातपाशनिपातादिजनितम् । एतदुःखविशिष्टाश्चित्तक्षणाः संसारिणां दुःखमित्यु १. घण्टावान् । २. तत्संज्ञकः । ३. आशुत्पत्ति । ४. समुदेति अस्मादिति समुदयः दुःखकारणमिति यावत् । ५. निर्वाणम् । ६. अष्टाङ्गिकः सम्यग्दृष्टयादिः । ७. कफ । 1.-सम्बन्धा क. . सविकल्पनिर्विकल्पकज्ञा- क., ख० । 3. पितो क०, खः। 4.-ख्यो यथा- क० । तालाख्यो- ख० । 5. जनयतः क०, ख० । 6. -क्रान्तानि जातीया-क०, ख० । 7. यायैकत्व-क०। 8. रहिताववर्तन्ते, क०, ख०। 9. दृवं, ख० । 10. विलम्बिनः ग० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164