________________
[बौद्धशासन-परोक्षा] $ १. तथा ताथागतशासनमपि दृष्टेष्टविरुद्धम् । एवं हि सर्वभावानां क्षणभङ्गसंगममेवाङ्ग शृङ्गारमङ्गीकुर्वाणास्ताथागताः संगिरन्ते-रूपादिपञ्चस्कन्धा एव तत्वानि । रूपरसगन्धस्पर्शपरमाणवः सजातीयविजातीयव्यावृत्ताः परस्पराऽसंबद्धा रूपस्कन्धाः । सुखदुःखादयो वेदनास्कन्धाः । सविकल्पकनिर्विकल्पकज्ञानानि विज्ञानस्कन्धाः ।
"जाति-क्रिया-गुण-द्रव्यसंज्ञा पञ्चैव कल्पनाः । अश्वो याति सितो घण्टिक' तदाख्येति यथाक्रमम् ॥
__] इति
इत्येतस्कल्पनासहितं सविकल्पकम् , तद्रहितं निर्विकल्पकम् । तथा वृक्षादिनामानि संज्ञा स्कन्धाः । ज्ञानपुण्यपापवासनाः संस्कारस्कन्धाः इति । रूपवेदनाविज्ञानसंज्ञासंस्कारा इति पञ्च स्कन्धाः ।
२. तेषु च पूर्व-पूर्वचित्तविशेषप्रभवा उत्तरोत्तरचित्तक्षणा उपादानोपादेयरूपेण सजात्युत्तरक्षणं जनयन्त:5 परस्परासंपृक्ता निरन्वयप्रतिक्षणविशरारवो निरंशाश्च भ्रान्तिवशात् ग्राह्य-ग्राहकसंवेदनाकारत्रयाक्रान्ता "विजातीयाऽव्यवधानलघूत्पत्ति-सदृशापरापरोत्पत्तिविप्रलब्धबुद्धेः संतानरूपेण वर्तमाना आत्माभिधानं जनयन्ति । तत्रैकत्वप्रत्यभिज्ञानमपि लूनपुनर्जातनखकेशादौ पूर्वापरैकत्वाभावेऽपि दर्शनान्नित्यत्वसमर्थनाय नालमिति त्रिकालानुयाय्ये कत्वरहिता एव वर्तन्ते; किंतु ज्ञान-वैराग्यभावनातिशयवशादविद्यातृप्णाविगमे निःशक्तिकानामुत्तरोत्तरविज्ञानक्षणमजनयतां निरन्वयविनाशेन संतानोच्छित्तिर्मोक्षः । “प्रदीपनिर्वाणकल्पमात्मनिर्वाणम्'' [ ] इति वचनात् । तदुक्तम्
"क्षणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः । दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिताः1 ।।''
] इति । ३. तस्य च मोक्षम्योपायः काषायचीवरपरिधानशिरस्तुण्डमुण्डनब्रह्मचर्यधारणादयः । तथैव दुःखसमुदयनिरोधमार्गणा इति चत्वारः पदार्थाश्चतुरार्यसत्याभिधाना मुमुक्षुभिर्ज्ञातव्याः ।
४. तत्र सहज-शारीर-मानसागन्तुकानि दुःखानि । तत्र सहजं क्षुत्तृप्णा-मनोभूभयादिकम् । शारीरं वात-पित्त-पीनसानां वैषम्यसंभूतम् । मानसं धिक्कारावजेच्छा विघातादिजनितम् । आगन्तुकं शीतवातातपाशनिपातादिजनितम् । एतदुःखविशिष्टाश्चित्तक्षणाः संसारिणां दुःखमित्यु
१. घण्टावान् । २. तत्संज्ञकः । ३. आशुत्पत्ति । ४. समुदेति अस्मादिति समुदयः दुःखकारणमिति यावत् । ५. निर्वाणम् । ६. अष्टाङ्गिकः सम्यग्दृष्टयादिः । ७. कफ ।
1.-सम्बन्धा क. . सविकल्पनिर्विकल्पकज्ञा- क., ख० । 3. पितो क०, खः। 4.-ख्यो यथा- क० । तालाख्यो- ख० । 5. जनयतः क०, ख० । 6. -क्रान्तानि जातीया-क०, ख० । 7. यायैकत्व-क०। 8. रहिताववर्तन्ते, क०, ख०। 9. दृवं, ख० । 10. विलम्बिनः ग० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org