________________
८]
बौद्धशासन-परीक्षा च्यन्ते । तदुःख जननकर्मबन्धहेतुभूते अविद्यातृष्णे समुदयशब्देनोच्येते तत्र वस्तुयाथात्म्याऽप्रतिपत्तिरविद्या । इष्टानिष्टेन्द्रियविषयप्राप्तिपरिहारवाञ्छा तृष्णा । निरोधो नाम अविद्यातृप्णाविनाशेन निरास्रवचित्तसंतानोत्पत्तिलक्षणः संतानोच्छित्तिलक्षणो वा मोक्षः । तथा' मोक्षहेतुभता मार्गणा।
$ ५. सा च सम्यक्त्व-संज्ञा-संज्ञीवाक्कायकर्मान्तायामाऽऽजीवस्थिति-समाधिलक्षणाष्टाङ्गाः । तत्र सम्यक्त्वं पदार्थानां याथात्म्यदर्शनम् । संज्ञा वाचकः शब्दः संज्ञी वाच्योऽर्थः । वाक्कायकर्मणी वाक्कायव्यापारौ । अन्तर्व्यायामो वायुधारणा । आजीव स्थितिरायुरवसानपर्यन्तं प्राणधारणा । समाधिर्नाम सर्व दुःख म्, सर्व क्षणिकम् , सर्वं निरात्मकं सर्व शून्यमिति सत्यभावना । तस्याः प्रकर्षादविद्यातृष्णाविगमे निरास्रवचित्तक्षणाः सकलपदार्थावभासकाः समुत्पद्यन्ते । तद्योगिप्रत्यक्षम् । स च योगी यावदायुम्तावत्कालमुपासकानां धर्ममुपदेश्य आयुरवसाने प्रदीपनिर्वाणकल्पमात्मनिर्वाणं प्राप्नोति उत्तरचित्तस्योत्पत्तरभावादिति । तदप्युक्तम्
"दीपो यथा निर्वृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित् स्नेहक्षयात्केवलमेति शान्तिम् ।। जीवस्तथा' निर्वृतिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिशं न कांचित् विदिशं न कांचित् मोहक्षयात् केवलमेति शान्तिम् ॥"
[ सौन्दरनन्द० १६।२८,२९ ] इति [ उत्तरपक्षः]
६. तदेतत्सौगतमतं तावत् दृष्टविरुद्धम् । सौगताभिमतस्य निरन्वयविनाशिपरमाणुमात्रलक्षणस्वलक्षणस्य स्थलस्थिरसाधारणाकारावभासिना प्रत्यक्षेण विरुद्धत्वात् । नहि प्रत्यक्षे सूक्ष्मक्षणिकासाधारणरूपाः परमाणवः प्रतिभासन्ते, स्थूलस्थिरसाधारणाकारात्मनामेव घटादीनां प्रतिभासनात् ।
७ ननु परमाणुष्वेवात्यासन्नासंसृष्टेषु दृष्टौ प्रतिभासमानेषु कुत°श्चिद्विभ्रमनिमित्तादात्मनि परत्र चासन्तमेव स्थूलाद्याकारं दर्शयन्तो संवृतिः तान् संवृणोति केशादिभ्रान्तिवदिति चेत् ; नैवम् ; बहिरन्तश्च प्रत्यक्षस्य भ्रान्तत्वापत्तेः, तस्य अभ्रान्तत्वकल्पनापोढत्वाभावप्रसंगात्, “प्रत्यक्ष कल्पनापोढमभ्रान्तम्" [न्यायवि०१।४] इति लक्षणस्याऽसंभवदोषानुषंगात् ।
८ ननु नैष दोषः, परमाणुप्रत्यक्षस्य तल्लक्षणसंभवादिति चेत् ; न; परमाणूनां जातुचिदध्यक्षबुद्धावप्रतिभासनात् । न हि कश्चिल्लौकिकः परीक्षको वा देशकालविप्रकृष्टार्थवत् परमाणन् साक्षात्प्रत्येति, अन्यथा प्रतीत्यपलापप्रसंगात् । त इमे परमाणवः प्रत्यक्षबुद्धावात्मानं न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्यमूल्यदानक्रयिणः ।
१. तन्मते हि-सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यग्व्यायामः, सम्यगाजीवः, सम्यक् प्रयत्नः, सम्यकस्मृतिः, सम्यग्समाधिश्चेत्यष्टौ। २. भावनायाः । ३. कल्पना। ४. मूल्यं दातुं न प्रभवन्ति अथ च प्रत्यक्षतामिच्छति ।
1. नोच्यते क० । 2. तदा क०, खः। 3. अजीव क०, ख०। 4. -त्मकं शून्यम् क० । 5. योगि क०, ख० । 6. -रिष्टम् क०, ख । 7. जिनस्तथा क. । 8. -माने कुत-क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org