SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सत्यशासन-परीक्षा ६. न च परमाणवः प्रत्यक्षा भवितुमर्हन्ति, तत्साक्षात्करणे प्रमाणाभावात् । निर्विकल्पक प्रत्यक्षमस्तीति चेत् ; न; तस्याव्यवसायात्मकस्याप्रामाण्यात्, अविसंवादवैकल्यात् । तथा हियदविसंवादविकलं न तत्प्रमाणं, यथा अज्ञस्य विषदर्शनम्, तद्विकलं च सौगतपरिकल्पितं दर्शनम् । अविसंवादो हीत्थं गेयमित्थं चित्रमित्यभिसन्धिकरणमेव । “अभिप्रायनिवेदनादविसंवादनम्" [प्र० वा० १।३] इति वचनात् । न च तन्निवेदनमव्यवसायस्य, अज्ञविषदर्शनस्यापि तत्प्रसंगात् । १०. अव्यवसायस्यापि दर्शनस्य व्यवसायजननात्त न्निवेदनमिति चेत् ; न; व्यवसायस्यैवासंभवात् , कुतश्चिदपि तत्स्वरूपस्याव्यवस्थितेः । विकल्पस्वरूपस्य स्वसंवेदनेन व्यवस्थापनेऽपि तस्य विकल्पान्तरापेक्षत्वप्रसंगात्, नीलादिस्वलक्षणदर्शनवत् । ११. यदि स्वसंवेदनं निश्चयस्वरूपं निश्चयनिरपेक्षतया परिनिष्ठापयेत् तदा वस्तुदर्शनमपि स्वलक्षणम् , विशेषाभावात् , तथा च किं निश्चयापेक्षया ? वस्तुदर्शनस्य निश्चयापेक्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणादनवस्था स्यात् । विकल्पस्य विकल्पान्तरेण व्यवस्थापनेऽपि तस्यापि तदन्तरेण व्यवस्थेति तदवस्थैवानवस्था । ततो व्यवसाय एव न संभवति यतस्तजननात् प्रत्यक्षं प्रामाण्यमुपढौकेत । $ १२. यथा कथंचिद् व्यवसायम्य संभवे वा न तज्जननं संभवति अव्यवसायाद् व्यवसायस्य गर्दभादश्वस्येवानुत्पत्तेः । अभिलापशून्यादप्यध्यक्षाद् व्यवसायकल्पनायां स्वलक्षणं किं नाध्यवसायं जनयेत् स्वयमभिलापशून्यमपि, प्रत्यक्षमध्यवसायस्य हेतुन पुनः रूपादिरिति कथं सुनिरूपिताभिधानम् । $ १३. यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्तिः प्रदीपादेः कजलादिवत् विजातीयादपि कारणात् कार्यस्योत्पत्तिदर्शनादिति मतम् ; तदा तादृशोऽर्थाद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु तत एव । $ १४. जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात् कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्यादिति चेत् ; प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः स्यादिति समानः पर्यनुयोगः । विकल्पस्य जात्यादिविषयत्वाददोषः इति चेत्; न; प्रत्यक्षवत् तस्य जात्यादिविषयत्वविरोधात्; तत एव तस्य वस्तुनोऽप्युत्पत्तिप्रसक्तेश्चेति व्यवसायहेतुत्वमनुपपन्नमेव । $ १५. अथ व्यवसायवासनोन्मीलनेन अव्यवसायस्यापि व्यवसायहेतुत्वं दर्शनस्येति चेत्; न; तद्वदर्थस्यैव तद्धेतुत्वप्रसंगेन अन्तर्गडुनो दर्शनस्याऽकल्पनापत्तेः । व्यवसायहेतुत्वेन चाविसंवादित्वमौपचारिकमेव दर्शनस्य स्यात्, मुख्यतः संनिपत्याऽभिप्रायनिवेदनेन व्यवसायस्यैव तदुपपत्त: । १. "प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात् ॥" प्र. वा० ११३ २. व्यवस्थापयेत् । ३. शब्दरहितात् । ४. निर्विकल्पस्य । ५. प्रत्यक्षात् । 1. -हितं ज्ञेयं क० । 2.-नात्तं निवेदमिति ख०, -जनमिति ग०। 3. इति पदं 'ग' प्रतौ नास्ति ।। 4. एव तद्वजादव-क०, ख० । 5. पर्यानयोगः क०, ख०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy