________________
२१] बौद्धशासन-परीक्षा
२३ न च ततस्तस्य प्रामाण्यम्; सन्निकर्षादावपि तत्प्रसंगात् । ततो युक्तमविसंवादवकल्यात् दर्शनमप्रमाणमिति । तदुक्तम्
"विषदर्शनवत्सर्वमज्ञस्याकल्पनात्मकम् । दर्शनं न प्रमाणं स्यादविसंवादहानितः॥"
[सिद्धिविनि० १।२४ ] इति १६. प्रामाण्याभावे च दूरतः प्रत्यक्षत्वम् , तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेः । अतः प्रत्यक्षाभावान्न परमाणूनां प्रतिभासने प्रत्यक्षं प्रभवति ।
$ १७. नाप्यनुमानम् ; तस्य 'लिङ्गदर्शनपूर्वकस्य प्रत्यक्षा भावेऽनुपपत्तेः । नाप्यागमः वाचां वस्तुविषयत्वानिष्टेः । एवं सकलप्रमाणाभावात् कथमर्थप्रमितिः स्यात, तदभावे परोदितपञ्चस्कन्धरूपाशेष प्रमेयानुपपत्तिः । तथा च सकलं जगच्छून्यमेवेति स्याद्वादविद्वेषिनां सौगतानां महदनिष्टमुपनिपतति । तदुक्तं स्वामिसमन्तभद्रपादैः
"प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गिगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमश्रुण्वतां ते ।।"
[युक्त्यनु० श्लो० २२ ] इति १८. ततः प्राक्परमाणवः' प्रतिभासन्त इति परेषां प्रतिज्ञा पोप्लूयते, तथा पश्चात् संवृत्या स्थूलाद्याकाराः प्रतीयन्ते इति प्रतिज्ञापि । प्रागपि प्रत्यक्षेण नीलादिवत् स्थूलाद्याकाराणां दर्शनात् नीलविकल्पवत् स्थूलादिविकल्पानां च प्रतीतेः ।
$ १६. तस्मादिन्द्रियबुद्धयोऽपि स्वलक्षणविषया मा भूवन केवलं स्थूलाद्याकारान् पश्येयुः, अदृष्टे विकल्पायोगात्, अतिप्रसंगाच्च ।
२०. यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्प॑त्तिः, नीलस्य दृष्टत्वान्नील-विकल्पस्यैवोत्पत्तेः', तथैव स्थूलादीनपश्यतः तद्विकल्पोत्पत्तिर्मा भूत् ; स्वलक्षणदर्शनात् स्वलक्षणविकल्पोत्पत्तिरेवास्तु।
२१. न चैवम्, स्थूलाद्याकारेप्वेव विकल्पोत्पत्तेः । यदि पुनः स्थूलाद्याकाराणामदर्शनेऽपि तदनादिवासनावशादेव तद्विकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेऽपि तद्वासनासाम
•देव नीलादिविकल्पोत्पत्तिः । ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः संभाव्येत् । स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेः दुर्घटैव । तदनुत्पत्तेः सुतरां तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद् वेद्याकारविवेकवद्वा । "स्वरूपस्य स्वतो गतिः” [प्र० वा० ११५]
१. प्रत्यक्षत्वस्य । २. प्रामाण्याभावे । ३. अर्हत इष्टमित्यध्याहारः, तेन ते इष्टमश्रृण्वतामिति सम्बन्धः- आ, टि०। ४. स्थूलादिविकल्पोत्पत्तिः । ५. स्थूलादि । ६. स्यादिति । ७. नीलादिविकल्पोत्पत्यन्यथानुपपत्तः ।
1. एष क०, ख० । 2. लिङ्गादर्श० क०। 3. प्रत्यक्षभावे क०। 4. अनुपपत्ति: क०, खः । 5.-रूपाः शेष-क० । 6. तत् क०, ख० । 7. परमाणत: क०, ख०। 8.-योगादपि प्र-क०, ख०। 9. दृष्टत्वान्नीलोत्पत्ति-क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org