SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सत्यशासन-परीक्षा [२२इत्यपि तथा निश्चयानुत्पत्तौ न सिद्ध्येत् , ब्रह्माद्वैतादिवदिति सर्व विप्लवते । $ २२. ततः कुतश्चिन्निश्चयात् नीलादिस्वभावव्यवस्थायां स्थूलादिनिश्चयात् वस्तुनि परमार्थतः स्थूलाद्याकारव्यवस्थितिरास्थेया अन्यथा क्वचिदपि व्यवस्थानासिद्धेः । २३. ततो न तेषां सांवृतत्वम्, संवते विकल्पात्मिकायाः प्रागेव 'प्रत्यादिष्टत्वाच्चेति प्रागुक्तं शाक्यवाक्यमशेषतः प्रतिज्ञारूपं प्राज्ञैरवज्ञायते । $२४. ननु [ न ] परमार्थाः स्थूलाधाकाराः बाधकसद्भावात् । तथा हि-स्थूलाकारोऽवयवी, साधारणाकारः सामान्यम् । तत्र चैकस्यावयविनोऽनेकेप्ववयवेषु सामान्यस्यैकस्य अनेकव्यक्तिषु वृत्तिः परैरिष्टा, प्रत्याश्रयं किमेकदेशन, सर्वात्मना वा स्यात् प्रकारान्तराभावात् । समवायः प्रकारान्तरमिति चेत्, न; अयुतसिद्धेषु वर्तते समवैति इत्यनयोरर्थभेदाभावात् । तत्रैकमनेकत्र वर्तमान प्रत्यधिकरणं न तावदेकदेशेन, निःप्रदेशत्वात् । नापि सर्वात्मना , अवयव्यादिबहुत्वप्रसंगात् ; यावन्तोऽवयवादयस्तावन्तोऽवयव्यादयः स्युः, तेषां प्रत्येकं सर्वात्मना वृत्तत्वात् । २५. अथ प्रदेशवत्वं मन्येत अवयव्यादीनां तत्रापि वृत्तिविकल्पोऽनवस्था च । तथा वावयव्यादि सर्व तदेकमेव न स्यादिति वृत्तेर्दोषस्य बाधकस्य भावादिति चेत् ; तदसत् , भेदैकान्तवादिनामेव प्रतिपादितदोषोपनिपातात् । स्याद्वादिभिरपि "एकस्यानेकवृत्तिन भागाभावादबहूनि वा। भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनाहते ॥" [आप्तमी० श्लोक० ६२ ] इति तोन् प्रति तद्दोषप्रतिपादनात् । $ २६. नन्वेवं वृत्तेर्दोषः स्याद्वादिनां च प्रसज्यत इति चेत् ; तर्हि नायं प्रसंगोऽनेकान्ते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् । यथैव हि ज्ञानस्य वेद्यवेदकाकाराभ्यां तादात्म्यम्, अशक्यविवेचनत्वात् 'किमेकदेशेन सर्वात्मना वा' इति विकल्पयोर्न विज्ञानस्य सावयवत्वं बहुत्वं वा प्रसज्येत, अनवस्था वा, तथा अवयव्यादेरप्यवयवादिभ्यस्तादात्म्यमशक्यविवेचनत्वादेव नैकदेशेन प्रत्येकं सर्वात्मना' वा; यतस्ताथागतः सर्वथा भेद इव अवयवावयव्यादीनां कथंचित्तादात्म्येऽपि वृत्तिं दूषयेत् । २७. यदत्रान्यदप्युक्तम्-न परमार्थः स्थूलाकारः परमाणूनां संबन्धासिद्धेः तेषामेकदेशेन संबन्धे दिग्भागभेदादनुषट्केन युगपद्योगे षडंशतापत्तेः; सर्वात्मना संबन्धे प्रचयस्यैकपरमाणुमात्र १. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः श्रा० टि० । २. नैयायिकान् प्रति वृत्तिविकल्पदोषस्य । 1.-रप्यासेया-क० । 2. ननु परमा- क०। 3. -वयेषु क० । 4. -वेदिना क०, ख०। 5. वेद्यवेदनाकार-ग०। 6. प्रसज्यते ख०, ग० । 7. प्रत्येक असर्वा-क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy