________________
-२४]
चार्वाकशासन परीक्षा २१. अथ प्रत्यक्षान्तरं स्वयमात्मानं व्यवस्थापयति पृथिव्यादि स्वविषयं च तत्र प्रवर्तनादतो न तदभावप्रसंग इति मतम्; तर्हि सर्वज्ञोऽपि स्वसंवेदनादात्मानं स्वर्गापूर्वादिविषयं च व्यवस्थापयति, इति कथं तदभावसिद्धिः, प्रमाणान्तरस्य च तद्वचनस्य 3 *हेतुवादरूपस्याऽहेतुवादरूपस्य च स एव व्यवस्थापकः स्यादिति कुतस्तदभावेसिद्धिः। सर्वज्ञः स्वपरव्यवस्थापकोऽस्तीत्यत्र किं प्रमाणमिति चेत् ; स्वप्रत्यक्षैकप्रमाणवादिनः प्रत्यक्षान्तरं स्वपरविषयमस्तीत्यत्र किं प्रमाणम्, तथा प्रसिद्धिरन्यत्रापि, इति न प्रत्यक्षं तदभावावेदकम्, अतिप्रसंगस्य दुःपरिहरत्वात् ।
$ २२. किं च, सर्वज्ञत्वाभावः प्रत्यक्षेण क्वचित् कदाचित् कस्यचिद व्यवस्थाप्यते, सर्वत्र सर्वदा सर्वस्य वा ? तत्राद्यपक्षे परस्येष्टापादनम् । द्वितीयपक्षे सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञाभाववचनं चार्वाकस्य ।
$२३. नाप्यनुमानं तदभावसाधकम्, तदनभ्युपगमात् स्वयमनुमानं निराकुर्वन्ननुमाना- . देव सर्वज्ञाभावं साधयति इति कथमनुन्मत्तः ।
६२४. तदेवं बाधकामावादस्ति सर्वज्ञः । स च स्याद्वादी भगवनहन्नेवान्ययोगव्यवच्छेदेन निश्चीयते, तस्यैव युक्तिशास्त्राविरुद्धवाक्यत्वात् । अन्येषां न्यायागमविरुद्धभाषित्वात् । ततस्तदुक्तों धर्मो मोक्षश्च व्यवतिष्ठते । तन्निराकरणे चार्वाकाणां 'प्रमाणाभावस्य प्रतिपादितपायत्वात् । प्रलापमात्रस्य च प्रेक्षावतामनादरणीयत्वादिति स्थितं दृष्टेष्टविरुद्धत्वात् चार्वाकमतमसत्यमिति ।
स्वपराविदिताध्यक्ष चार्वाकाणां वचोऽखिलम् । भवेत् प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ।। न चार्वाकमतं सत्यं दृष्टादृष्टेष्टबाधतः ।। न च तेन प्रतिक्षेपः स्याद्वाद(स्ये)ति निश्चितम् ।।
[इति चार्वाकशासन-परीक्षा]
१. अनुमानरूपस्य । २. सर्वज्ञस्य प्रमाणान्तरस्य च । ३. 'अस्मिन् काले अत्र कश्चित्सर्वज्ञो नास्ति' इत्यत्र विवादाभावात् । ४. स्याद्वादितीर्थकरप्रणीतः।
1. -दिविष- क.। 2. प्रवर्तमानात् क०, ख०। 3. तद्वचस्य ख०। 4. हितवाद. ख०। 5. तदभ्युप-क०। 6.-वाक्त्वात् ख०, ग०। 7.-माणभाव-क०, ख० । 8. विधिताध्यक्षाणां चाक०, ख०। 9. -दश्चेति क०, ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org