________________
१८
सत्यशासन-परीक्षा
[ १७
$ १७. किं च भूतचैतन्ययोर्बहिरन्तर्मुखावभासयोः बोल्यादि - रागादि- विरुद्धधर्माध्यासितयोर्द्रव्यान्तरभावेन भिन्न प्रमाणग्राह्यत्वात् भेद एव । तयोर्देशभेदेनादर्शनादभेदे शरीराकारपरितावनिवनै-पवनसख-पवनानामप्येकत्वप्रसंगात् । “उपादानकारणसदृशं हि कार्य भवति ।" [ ] इति वचनाद् धारणेरणद्रबोष्णतारूपेण भूतसादृश्याभावात्, अमूर्तचैतन्यस्य मूर्तकार्यत्वायोगाच्च शरीराद्भिन्नमेच चैतन्यम् |
$ १८ तस्यै चाभिलाषो हि प्रत्यभिज्ञाने सति प्रादुर्भवति, प्रत्यभिज्ञानं च स्मरणे सति, स्मरणं च पूर्वानुभव' एव भवतीति पूर्वानुभवः सिद्धः । अन्यथा तदहर्जातबालकस्य स्तनादावभिलाषाऽभावप्रसंगात् । “मृतानां केषांचिद्रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयतां दर्शनात् केषांचिद्भवस्मृतेरुपलम्भाच्च परलोकोऽप्यस्ति । तदुक्तम् —
3
" तदहर्जस्तने हातो रक्षो दृष्टर्भवस्मृतेः । भृतानन्वयनात् सिद्धः प्रकृतिज्ञः सनातनः ॥ "
[
] इति
$ १९. जननादिकारणाविशेषेऽपि सुखदुःखादिवैचित्र्यदर्शनात् पुण्यपापादिकमप्यस्त्येव । एवं प्रमाणप्रसिद्धे परलोके परलोकपुण्यपापप्रद्वेषि बृहस्पतिमतं न सतां मनो मनागपि प्रीणयति, किंतु उपालम्भमेवार्हति । स चोक्तः स्वामिभिः
'मद्याङ्गवद्भूतसमागमे शः शक्त्यन्तरव्यक्तिरदैवसृष्टिः । इत्यात्मशिश्नोदर पुष्टितुष्टैर्निहीभयैर्हा मृदवः प्रलब्धाः ॥ दृष्टेऽविशिष्टे जननादिहेतौ विशिष्टता का प्रतिसत्त्वमेषाम् । स्वभावतः किं न परस्य सिद्धिरतावकानामपि हा प्रपातः ॥ स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचार पदेष्वदोषम् । निर्घुष्य दीक्षा सममुक्तिमानास्त्वद्दृष्टिबाह्याः बत विभ्रमन्ति ॥ [ युक्त्यनु० श्लो० ३५-३७ ] इति
ततो नायं बृहस्पतिराप्ततामात्मसात्करोति ।
$ २०. यदुक्तम् – 'सर्वज्ञो नास्ति' इत्यादि, तदपि प्रलापमात्रमेव प्रत्यक्षतः सर्वज्ञस्य मुनेः, अनुमानस्यागमस्य च नास्तित्वव्यवस्थापनासंभवात् तस्य भावविषयताभ्युपगमात् । यदि किंचित् प्रत्यक्षं तत्राप्रवर्तमानत्वादेव तदभावं व्यवस्थापयेत् तदा पुरुषान्तरादि- प्रत्यक्षान्तराणामप्यभावं तदेव गमयेत् तद्विषयाणां च क्ष्मादीनामित्यतिप्रसंगः स्वयमिष्टस्य बृहस्पत्यादिप्रत्यक्षस्यापि सविषयस्याभ वसिद्धेः ।
,
1
१. बाल्यादिभावो हि भौतिकशरीरगोचरः । २. जलम् । ३. अग्निः । ४. धारणं पृथिव्याः, ईरणं वाथ्वोः द्रवो जलस्य, उष्णता चाग्नेः । ५. जीवस्य । ६. तुलना - प्रमेयरल० । ७. प्रत्यक्षस्य ।
1. - तराभावेन क० । 2 -नुभूत एव क० । 3. -स्कृवे क० । 4. प्रसिद्ध पर क०, ख० । 5. प्रणयति क०, ख० । 6. दृष्टि क० । 7. इदं पथं ख 'प्रतौ नास्ति' । 8. विषयत्वाभ्यु० ख० । 9. - दिना० ख० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org