________________
-१६ ]
चार्वाकशासन-परीक्षा
१७
तस्य प्रतीतेः । ततो भोक्तृत्वमात्मन्येवेति तदपलापिनो लोकायतिकस्य भोक्तृत्वं क्वापि न व्यवस्थामास्तिघ्नुवत |
$ १०. ननु पृथिव्यादिसमुदयशरीर कार्यान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतना - विशेषव्यापिनि भोक्तृत्वं संभवति, शरीरादिविलक्षणत्वात्तस्येति चेत्; तदेवात्मद्रव्यमस्तु जन्मनः पूर्वं मरणादूर्ध्वमपि तस्य सद्भावोपपत्तेः । विवादापन्नं चैतन्यमनाद्यनन्तं पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्योऽत्यन्तवैलक्षण्यस्यान्यथानुपपत्तेः । न हि तत्कार्यं ततोऽत्यन्तविलक्षण मस्ति, रूपादिसमन्वयात् । चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेत्; न; तत्त्वभेदेऽपि तस्ये भावात् पृथिव्यादीनामभेदापत्तेः । पृथिव्यादितत्त्व भेदानामेकविकारिसमन्वयाभावाद्भेद एव केषांचित् प्रागभावादिभेदवत्; किमिदानीं चैतन्यभूतयोरेकविकारिसमन्वयोऽस्ति येन तत्त्वान्तरत्वेन भेदो न स्यात्, तस्मादेकविकारिसमन्वयासत्त्वं वैलक्षण्यम्, तदेव च तत्त्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयतीत्यनाधनन्तत्वेन प्रसिद्धः सोऽयमात्मा हर्षविषादाद्यनेका कारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मकोsप्रत्याख्यानाह : प्रतिक्षिपन्तमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । ततश्चार्वाकमतं दृष्टविरुद्धमिति सिद्धम् ।
$ ११ एतेन तदिष्टविरुद्धं च सिद्धम्, अनाद्यनन्तस्यात्मनः साधितत्वात्, प्रतिषेधगौणकल्पनादिभिस्तस्य साधयिष्यमाणत्वाच्च । तदुक्तम्
"प्रतिषेध-गौणकल्पन-शुद्धपदाने कसंमतिजिनोक्तैः । निर्वाधलक्षणार्थेर्लिङ्गैरपि भाव्यते भावः ॥”
[
]
$ १२. तद्यथा - 'नास्ति जीवः' इति प्रतिषेधवचनमेव जीवस्य मुख्यवृत्त्या अस्तित्वं सूचयति, निरूपाख्येषु विधिप्रतिषेधानुपपत्तेः । यथा - 'नास्तीह घट:' इति प्रतिषेधो देशान्तरे घटास्तित्वं प्रकाशयति तथा स्वरूपादिचतुष्टयेन सत एव जीवस्य पररूपादिचतुष्टयेन नास्तित्वं घटते नान्यथा । $ १३. ननु खरविषाणा 'दीनामत्यन्ताभावरूपाणामपि निषेधविषय ' स्योपपत्तिरिति चेत्; न गवादिमस्तके सत एव विषाणस्य खरादिमस्तके प्रतिषेधदर्शनात् । ततः सतः प्रतीतौ प्रतिषेधसिद्धिरिति सुनिरूपितम् ।
$ १४ तथा चित्रपुरुषादौ 'इदं सजीव चित्रम्' इति गौणकल्पनं मुख्यवृत्त्या जीवास्तित्वं कथयति, यथा - " सिंहो माणवकः' इति माणवके सिंहत्वं विशिष्ट जात्यादिपरिणत सिंह। स्तित्वमिति । तस्माद्गौणकल्पनात् मुख्यसिद्धिरिति निरवद्यम् ।
$ १५. तथा 'जीवः' इति शुद्धपदं मुख्यवृत्त्या, स्वार्थवत् शुद्धपदत्वात् प्रमाणपदवत् । ततः शुद्धपदाभिधेयत्वात् 'अस्ति जीवः' इति च सिद्धम् ।
१६. तथैवानेकविशिष्टजनसंगतत्वात्, आप्तप्रणीतत्वाच्च 'अस्ति जीवः' इति सुव्य
वस्थितम् ।
१. सत्त्वादिसमन्वयस्य । २ नैयायिकानाम् । ३. प्रतिषेधश्च गौणकल्पनं च शुद्धपदश्च अनेकसम्मतिश्च जिनोक्तिश्च तैः । ४. जीवः । ५. निरूपेषु तुच्छेषु ।
1. -वित क०, ग० । 2. - नन्तरां चैत-०, ख० । 3. - तदेष्ट क० । 4. - माणाच्च क० । 5. - दिना ख० । 6. - विषयत्वोप- ग०। 7. प्रतीतो प्रति क० । 8.
संजीव क०, ख० ।
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org