SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सत्यशासन-परीक्षा [९ते तेनैव निहत्य निर्दयतरं भस्मीकृता लुण्ठिताः, केचित् पञ्चशिखीकृता हि जटिनः कापालिकाश्चापरे॥ [शृङ्गारशतक श्लो० ७९ ] अन्यच्च “पयोधरभरालसाः स्मरविर्णिताम्रेक्षणाः, क्वचिन्मलयपञ्चमोच्चरितगीतझङ्कारिणीः1 । विहाय रमणीरमूरपरमोक्षसौख्यार्थिनामहो जडिमडिण्डिमो विफलभण्डपाण्डिनाम् ॥" ] इति [ उत्तरपक्षः ] ६५. तदेतच्चार्वाकमतं तावद् दृष्टविरुद्धम् , प्रत्यक्षेण पृथिव्यादीनां परस्परमुपादानोपादेयभावदर्शनात् , तेषां सर्वथा तत्त्वान्तरत्वस्य पक्षस्य प्रत्यक्षविरोधसिद्धेः । तेषां परस्परमुपादानोपादेयभावेऽपि तत्त्वान्तरत्वे बीजादेररादेरपि तत्त्वान्तरत्वप्रसंगात् । ६६. न च तेषां परस्परमुपादानोपादेयभावदर्शनमसिद्धम् , पृथिव्यात्मकचन्द्रकान्तसूर्यकान्त-काष्ठविशेषेभ्यो जलानलयोरुत्पत्तेः । प्रदीपजलविशेषाभ्यां पृथ्वीरूपाञ्जन-मुक्ताफलयोः, पृथ्वीविशेषतालवृन्तादेर्वायोः साक्षाद्वीक्षणात् , अन्यथा दृष्टापलापप्रसंगात् । ६७. तथा जीवो नास्तीत्यभिमतमपि दृष्टविरुद्धम् । सुखदुःखहर्षविषादाद्यनेकपरिणामात्मकस्यात्मतत्त्वस्य स्वसंवेदनप्रत्यक्षेण निर्बाधमनुभवात् हेतुभिर्विनैव अस्तित्वस्य सिद्धेः । "तस्य हि हेतुर्वाच्यो यस्मिन्मोमुह्यते मतिर्नृणाम् । न हि दर्पण श्रादेयः करकङ्कणदर्शनाय बुधैः ।।" ] इति वचनात् ८. न च जीवस्य ज्ञानात्मनः स्वसंवेदनमसिद्धम् ; ज्ञानस्य स्वसंविदितत्वे चाभावापत्तेग्राहकाभावात् । ज्ञानान्तरेण ग्रहणे, तस्यापि तदनन्तरेण ग्रहणकल्पनायामनवस्थोपनिपातात् । तदकल्पनायां तथा वक्तुमशक्तेः । न चानुमानेन तद्ग्रहणम् , तदनुपगमात् प्रमाणसंख्याव्याघाताच्च । ततः स्वसंवेदनमेषितव्यम् । तत्र च स्वसंवेदनेन जीवस्य भोक्तृत्वासाधारणधर्मभृतः साक्षात्करणाद् दृष्टविरुद्धमिदं बाहम्पत्यं मतम् । Ft. नासिद्धं भोक्तृत्वस्यासाधारणत्वम् ; अचेतनस्य शरीरादेस्तदनुपपत्तेः । न ह्यचेतनस्य शरीरस्य भोक्तृत्वमुपपद्यते, शरीरस्य भोगाधिष्ठानत्वेन प्रसिद्धः, अन्यथा मृतकस्यापि भोक्तृत्वप्रसंगात् । नापि करणग्रामस्य; तस्य भोगोपभोगकरणत्वात् । न च शब्दादिविषयस्य; भोग्यत्वेन १. उद्धृतमिदम्-यशस्तिलके उत्तराधे, पृ० २५२ । २. मणिभ्यः । ३. स्वातिनक्षत्रे वृष्टस्य शुक्तिमध्ये पतितस्य । ४. अनुमानानभ्युपगमात् । ५. इन्द्रियसमूहस्य । __1. -झङ्कारिणः क०। 2. -त्वस्य परोक्षस्य प्रत्य० ख०। -त्वस्य परेष्टस्य प्रत्य० ग० । 3. -य संवे० क० । 4. -मनो० क०। 5. -णमादेयः क. 16. -पि साधा. क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary:org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy