________________
[चार्वाकशासन-परीक्षा] [पूर्वपक्षः]
१. अथानेकार्थवादिशासनानां मध्ये तावच्चार्वाकमतं दृष्टेष्टविरुद्धम् । इदं हि तेषामभिमतम्-इह तावन्न कश्चित्सर्वज्ञः सुगतादिषु संभवति ।
"सुगतो यदि सर्वशः कपिलो नेति का प्रमा। तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः॥"
[ तत्त्वसं० श्लो० ३१४९] इति वचनात् । $ २. नाप्यागमस्तकों वा प्रमाणभूतोऽस्ति परस्परविरोधादिदोषात् ; ततः कथं धर्मो व्यवतिष्ठेत । तदुक्तम्
"तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः, नासौ मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः ।।"
[ महाभारत ] इति $३. इह आप्तस्तु कश्चिद्देवतारूपो गुरुवृहस्पतिरेव प्रत्यक्षप्रसिद्धपृथिव्यादितत्त्वोपदेशात् । तथाहि-पृथिव्यप्तेजोवायव इति चत्वार्येव तत्त्वानि । कायाकारपरिणतेभ्यस्तेभ्यः पिष्टोदकगुडधातकीसंयोगान्मदशक्तिवान् स्नायुलाबूदण्डाङ्गुष्ठाङ्गुलिप्रयत्नाच्छ्रवणरमणीयक्वणितवच्च1 तदात्मकं चैतन्यं जायते । तच्च गर्भादिमरणपर्यन्तं 'जीव आत्मा' इत्यादि व्यपदेशभाक् प्रवर्तते । गर्भात् पूर्वकाले मरणादुत्तरकाले च तदभावः ।
४. ततः परलोकिनोऽभावः। परलोकिनोऽभावात् परलोकस्याप्यभावः । परलोकाभावे तल्लोकसुखानुभवनार्थमैहिकसुखविमुखा डिम्भका इव दम्भप्रलम्भनाधीनाः शरीरार्थव्ययविधानेन बहुधा मुधावत् क्लेशमश्नुवते । तथैवोक्तम्
“यावजीवेत् सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ अग्निहोत्रं त्रयो वेदाः त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ।। स्त्रीमुद्रां मकरध्वजस्य महतीं निर्वाणसंपत्करी, ये मोहादवधीरयन्ति कुधियो मिथ्यासुखान्वेषिणः ।
१. श्लोकोऽयं पूर्वपक्षे विद्यते । २. पृथिव्यादिभ्यः । ३. ऋक्यजुसामाख्याः । ४. उद्धृतमिदम्सर्वदर्शनसं०, चार्वा० पृ० २,५ ।
1. प्रयत्नाभ्रम क०। 2. काले तद् क०। 3. -दिनाः क., ग०। 4. जीवक०, क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org