________________
सत्यशासन-परीक्षा
[१६१४. तत्र साधनं नीलादेः संवेदनत्वसमर्थनम् , दूषणं बहिरर्थ त्वनिषेधनं तयोः प्रयोगः प्रकाशनम् । 'नीलादिः संवेदनादव्यतिरिक्तः तद्वद्यत्वात् ; तत्स्वरूपवत्' इत्यादिः 'न जडो नीलादिः प्रतिभास मानत्वात् सुखादिवत्' इत्यादिश्च ।।
१५. कथं पुनरस्य बहिरर्थाभावेऽनुपपत्तिरिति चेत् ; अस्य बहिरर्थविशेषत्वादेव । नहि तदभावे तद्विशेषस्य संभवः, वृक्षाभावे शिंशपाभावस्यैव प्रतिपत्तेः । नासौ तद्विशेष आरोपितरूपत्वादिति चेत् ; न; ततः सर्वशक्तिविकलादनिष्वदिष्टस्याप्यसिद्धेः । अनारोपितोऽप्येयं बोध एव न बहिरर्थ इति चेत् ; न, प्रतिपाद्यस्य तद्भावात् । प्रतिपादकस्येति चेत्, कथं ततः प्रतिपाद्यस्य प्रकृतार्थस्य प्रतिपत्तिः अन्यबोधादन्यस्य तदनपपत्तेः । अन्यथा प्रत्यात्मं बुद्धिभेदकल्पनावैफल्योपनिपातात् । तस्मादर्थविशेष एवायमित्युपपन्नमेवातो बहिरर्थव्यवस्थानम् । ततः साधूक्तम्'इष्टविरुद्धं विज्ञानाद्वैतम्' इति ।
[ इति विज्ञानाद्वैतशासनपरीक्षा ]
[चित्राद्वैतशासनपरीक्षा] १६. एतेन चित्राद्वैतमपि प्रत्युक्तम् । तन्मतेऽपि बहिरर्थापहवात् । प्रत्यक्षानुमानाभ्यां बहिरर्थस्य च व्यवस्थापितत्वादित्यलं प्रसंगेन । सर्वथा अन्तरङ्गाथैकान्तशासनस्य दृष्टेष्टविरुद्धत्वादसत्यत्वसिद्धेः।
प्रमाणाभावतः सर्व विज्ञानाद्वैतिनां वचः । भवेत्प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ॥ ज्ञानाद्वैतं न सत्यं स्यादृप्टेष्टाभ्यां विरोधतः । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥
[इति चित्राद्वैतशासनपरीक्षा]
१. 'साधनदूषणप्रयोगात्' इत्यत्र । २. साधनदूषणप्रयोगादित्यस्य हेतोः । ३. बहिरर्थाभावे । ४. बहिरर्थविशेषः । ५. साधनदषणप्रयोगः । ६. प्रतिपादकबोधरूपात् ।
I. -रर्थनि० ख०। 2. भाससमा. ग.। 3. त्यादेश्च ग०।1, न तेन क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org