________________
१३-]
विज्ञानाद्वैतशासन-परीक्षा १०. नन्वस्त्येव बहिरर्थप्रत्यक्षस्य बाधकम् , नीलतज्ज्ञानयोरभेदः सहोपलम्भनियमात्', द्विचन्द्रवत् , इत्यनुमानस्य तद्बाधकत्वादिति चेत् ; न; हेतोविरुद्धत्वात् । यौगपद्यार्थे सहशब्दे तन्नियमस्याभेदविरुद्धे नाना(त्वे) भावात् । अभेदेऽपि चन्द्रद्वितये भावं इति चेत् ; न; तत्रापि यथा प्रतिभासं भेदभावात् । तथा तत्त्वमभेदोऽपि इति चेत् ; न, यथातत्त्वं सहोपलम्भस्यापि अभावात् एवं दृष्टान्तोऽपि साध्यसाधन विकलः स्यात् । तन्मात्रस्य हेतुत्वे तस्य भेदमात्र एव भावाद्विरुद्ध एव हेतुः स्यात् । तथा—असिद्धश्चायं हेतुः; यतो नर्तक्याद्यकाथसंगतदृष्टयः परचित्तविदो' वा नावश्यं तबुद्धिं तदर्थ वा संविदन्तीति हेतोरसिद्धिः, नियमस्यासिद्धेः । नर्तकीरूपस्यापि बहुत्वान्न तन्नियमासिद्धिरिति चेत् ; न; तपस्यैकत्वात् । तत्र सर्वेषां सभासमवायिनां एकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं वस्तुतो नानैव तद्रूपमिति चेत् , कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः कुतश्चिदपि तदभावात् ।
$ ११.अथ "सर्वे प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" [प्र० वार्तिकालं. पृ० ३५९ ] इत्यनुमानं प्रकृतबाधकमिति चेत् ; न; प्रकृतसाध्यसाधनप्रत्यययोः स्वार्थालम्बनत्वाभावेन हेतोविज्ञानमात्रसिद्धिः, हेतुसाध्ययोरभावात् । अथार्थवत्त्वे, ताभ्यामेव हेतोर्व्यभिचारात् । तदुक्तं भगवद्भिः; स्वामिभिः
"अनर्थका साधनसाध्यधीश्चेद्विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥"
[युक्त्यनु० श्लो० १८] इति $ १२. तदेवं सकलबाधकवैधुर्यादभ्रान्तेन प्रत्यक्षेण बहिरर्थसिद्धेदृष्टविरुद्धं विज्ञानाद्वैतशासनम् ।
१३. तथेष्टविरुद्धं च, अनुमानाद्वहिरर्थसिद्धेः। तच्चेदमनुमानम् -- 'सन्ति बहिराः साधनदूषणप्रयोगात्' इति कथं पुनरतो भावधर्मिणो बहिरर्थस्य साधनम् , कथं च न स्यात् , अस्य सद्भावधर्मत्वे तद्वदसिद्धत्वापत्तेः; तदभावधर्मत्वे चातस्तदभावस्यैव सिद्धेविरुद्धत्वोपनिपातात् , तदुभयधर्मत्वे च व्यभिचारप्रसंगात् इति चेत् ; न, प्रत्येकोभयधर्मविकल्पविकलस्यैवास्याभ्यनुज्ञानात् । कथमेवं तम्य बहिरर्थभावं प्रत्येव लिङ्गत्वं न तदभावं प्रत्यपीति चेत् ; न; तत्रैव तस्याविनाभावनियमात् । धर्मिधर्मस्यापि कृतकत्वादेरनित्यत्वादौ तत एव गमकत्वोपपत्तेः न धर्मिधर्मत्वमात्रेण, एकशाखाप्रभवत्वादावपि तदुपनिपातेनातिप्रसंगापत्तेः ।
१. "सकृत्संवेद्यमानस्य नियमेन धिया सह ।
विषयस्य ततोऽन्यत्वं केनाकारेण सिद्धयति ॥"प्र. वा० ३।३८८ २. एकत्वेऽपि । ३. सहोपलम्मनियममात्रस्य । ४. सभ्यानामित्यर्थः । ५. नर्तकीरूपम् । ६. कोशपानंसौगन्ध्यम् । ७. बहिरर्थसद्भाव एव । ८. अविनामावनियमादेव । ९. पक्यानि एतानि फलानि एकशाखाप्रमवत्वात् उपयुक्तफलवदित्यत्र ।
1.-त्यैव ग० । 2. नीलदानयो ग० । 3. युग क०, ग० । 4. नानात्वभावात् कः। 5. भेदवभावात् क.। भेद एव भावात् ख० । 6. भेदेऽपि क०, ख०। 7. विरोधावा० क०, ख०। 8. प्रत्येवं ग०19. -नित्यादौ ग०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org