________________
सत्यशासन-परीक्षा $ ५. तदेवं बहिराख्यद्वितीयरहितत्वादद्वैतमनुभवसिद्धविज्ञानमात्रमेव व्यवतिष्ठत इति । [ उत्तरपक्षः ]
६. तदेतत् विज्ञानाद्वैतं प्रत्यक्षविरुद्धम् ; विज्ञानरूप अन्तरर्थवद बहिरर्थस्यापि नीलादेः परमार्थस्य प्रत्यक्षेणोपलक्षणात् । भ्रान्तं तत्प्रत्यक्षमिति चेत् ; न, वाधकाभावात् । उक्त एव वेद्यवेदकलक्षणाभावो बाधक इति चेत्, तावदेवं वदता योगाचारेण विज्ञानानां क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमनुमानेनैव व्यवस्थापनीयम्, स्वसंवेदनात्तदसिद्धेः; संविदा क्षणिकत्वेनाऽनन्यवेद्यत्वेन नानासंतानत्वेन नित्यत्वेन च सर्ववेद्यत्वेनैकत्वेन परमब्रह्मणा ज्ञानवादिना इव स्वसंवेदनाभावात् । अन्यथा ततो ब्रह्मसिद्धरपि दुर्निवारत्वात् । ततः क्षणिकत्वादिव्यवस्थापनमनुमानेनैवास्तु । तथा च क्षणिकत्वादौ कथंचिद्वेद्यलक्षणं यदि व्यवतिष्ठेत् तदा प्रकृतसंविदां क्षणिकत्वादिसाधनं लैङ्गिकज्ञानेन कृतं स्यान्नान्यथा ।
७. न चानुक्तदोषं वेद्यलक्षणमस्ति, विज्ञानवादिना तज्जन्मादेरनैकान्तिकत्वदोषवचनात् । संवित्क्षणिकत्वादावनुमानवेदनस्य' तत्संभवे नान्यत्र बहिरर्थे तदसंभवोऽभिधेयः सर्वथा विशेषाभावात् ।
६८. अत्रायं प्रयोगः-विमत्यधिकरणभावापन्नं ज्ञानं साक्षात्परम्परया वा स्वरूपव्यतिरिक्तार्थालम्बनम् ; ग्राह्यग्राहकाकारत्वात् ; संतानान्तराद्यनुमानवत् । विप्लवज्ञानग्राह्यग्राहकाकारित्वेन' व्यभिचार इति चेत् ;न'; संतानान्तरादिसाधनस्यापि व्यभिचारप्रसंगात् । न हि व्यापारव्याहारमे(द)नि सो' विप्लुतो नास्ति, येनाव्यभिचारिहेतु: स्यात् । यदि जाग्रदशाभाविसत्याभिमतव्यापारादिहेतुरव्यभिचारी स्यात्10 तर्हि 11तथाविधग्राह्यग्राहकाकारकत्व हेतुरप्यव्यभिचारी भवेत् , तथैव विवक्षितत्वात् ।
६९. अथ सत्याभिमतज्ञानेन वासनाभेदो गम्यत1 इति चेत् ; तदन्यत्रापि समानम् । यथैव हि जाग्रद्दशायां बहिरर्थवासनाया दृढतमत्वात् तदाकारज्ञानस्य सत्यत्वाभिमानः; स्वप्नादिदशायां तु तदवासनाया दृढत्वाभावात्तद्वेदनस्यासत्यत्वाभिमानो लोकस्य न परमार्थतो बहिरर्थः सिद्ध्यतीति वासनाभेदो गम्यते, तथानुपप्लवदशायां संतानान्तरज्ञानस्य वासनाया दृढतमत्वात् सत्यताभिमानो, अन्यत्र तददाादसत्यताव्यवहार इति वासनाभेदो गम्यताम्, न तु संतानान्तरम् । तदनभ्युपगमे स्वसंतानक्षणक्षयादिसिद्धिः कथमभ्युपगम्यते; ततः सुदूरमपि गत्वा किंचिद्वेदनं स्वेष्टतत्त्वावलम्बनमेषितव्यम् । तम्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो15 वचनं तत्त्वज्ञानं च प्रतिरुणद्धि इति न किंचिदेतत् । तदेवं वेद्यवेदकाकारत्वसाधनं1 6 बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयतीति बाधकबाधनात् न बाधको वेद्यवेदकलक्षणाभावः ।
१. बहिरर्थग्राहि । २. स्वसंवेदनात् । ३. वेद्यवेदकमावसंभवे । ४. सन्तानान्तराभ्युपगमे ।।
1.-नकैत्वेन क.। 2.-णा इव क.। 3.-करवव्य. क०। 4.-कत्वसा. क०। 5.-दो कथंचिद् वेदनस्य ख०। 6.-संवोऽभि० ग०। 7.-कारत्वेन ख०, कारकत्वेन ग०। 8.-ग. प्रतौ 'न' पदं नास्ति । 9.-हारभेदो नि० क०, ख.। 10. रव्यभिचारित्वातहि क०। 11. तथाविद क० । 12. कारत्व० ख०। 13. वासना गम्यते क०। 14. तत्वालम्बन ख०, ग०। 15. संविधानो वा वचनं क.। 16. कारत्व क.। 17.-तीति बाधनात् ख०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .