________________
[विज्ञानाद्वैतशासन-परीक्षा ] तथा विज्ञानाद्वैतशासनं दृष्टेष्टविरुद्धम्, [ पूर्वपक्षः]
$ १. तथा हि-तावदिदं खलु विज्ञानाद्वैतिनामिष्टम्, अन्तरङ्गस्य स्वसंविदितज्ञानस्यैव वस्तुता न तु बहिरङ्गस्यार्थस्य, जडस्य प्रतिभासायोगात्,1 वेद्यवेदकलक्षणस्य परपरिकल्पितस्य व्यभिचारित्वात् ।
२. [ तत्र ] तावत्सौत्रान्तिकपरिकल्पिततज्जन्मताद्रुप्यतदध्यवसायाः न प्रत्येकं वेद्यवेदकलक्षणम् ; चक्षुषा' समानार्थसमनन्तरवेदनेन शुक्तिकायां रजताध्यवसायेन च व्यभिचारात् । सह वा समानार्थसमनन्तरज्ञानेन, कामलाद्युपहतचक्षुषः शुक्ले शङ्ख पीताकारज्ञानसमनन्तरज्ञानेन च व्यभिचारात् ।
३.योगाङ्गीकृतं "कार्यनिमित्तकारणत्वमपि न तल्लक्षणम्, चक्षुषानेकान्तात् । तथा अन्यपरिकल्पितकार्यकारणभावाख्यप्रभवयोग्यतादिकमपि न तल्लक्षणम् ; तेनैव व्यभिचारात् । ततः कस्यचिदपि ग्राह्यग्राहकलक्षणस्यायोगात् सर्वं ग्राह्यग्राहकाकारज्ञानं भ्रान्तमेव । तथा प्रयोगः-यग्राह्यग्राहकाकारं तत्सर्वं भ्रान्तम्, यथा स्वप्नेन्द्रजालादिज्ञानम्, तथा च प्रत्यक्षादिकमिति । न हि भ्रान्तप्रत्यक्षादिकं बहिरर्थस्य व्यवस्थापकम्, स्वप्न प्रत्यक्षादेरपि अर्थव्यवस्थापकत्वप्रसंगात् । एवं युक्त्या अनुपपद्यमाना बहिरा दृष्टा अपि न श्रद्धेयाः , __ "युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे ।”
[
] इति वचनात् । $ ४. बहिरर्थानामेवमसंभवात् संवित्तिरेव खण्डशः प्रतिभासमाना सकलवेद्यवेदक व्यवहाराय कल्प्यते । तदुक्तम्
"नावनिर्न सलिलं न पावको न मरुन्न गगनं न चापरम् ।
विश्वनाटकविलाससाक्षिणी संविदेव परितो विज़म्भते ॥" अन्यच्च,
] इति "एक संविदि विभाति भेदधीन्नीलपीत सुखदुःखरूपिणी । निम्ननाभिरियमुन्नतस्तनी स्त्रोति चित्रफलके समे यथा ॥"
___] इति १. चक्षुषा घटज्ञानं जायते न तु तत् चक्षुहिकम् । २. समानार्थे यत् पूर्वज्ञानादुत्पन्नम् अनन्तरज्ञानं तत् पूर्वज्ञानादुत्पन्नम् अथ च पूर्वज्ञानाकारं तथापि नोत्तरं ज्ञानं पूर्व जानाति, ज्ञानं ज्ञानस्य न नियामकमिति सिद्धान्तात् । ३. शक्तिकायां रजतमितिज्ञानं रजताध्यवसायि, न च रजते प्र ४. शुक्ले शङ्ख जायमानं पीताकारज्ञानं शङ्खादुत्पन्नं शङ्खाकारमथ च शङ्खाध्यवसायि, न च प्रमाणम् । ५. कार्य ज्ञानं तन्निमित्तकारणं भवति वेद्यम् । ६. चक्षुरादिना। ७. उद्धृतमिदम्-अष्टश० अष्टसह. पृ० २३४ ।
1. मास योग० ख०। 2. क०, ग. प्रतौ 'तत्र' पदं नास्ति । 3. पिताकार. क. । 4. सकलवेदक. ग०। 5. धीनीलपीतसु० ख०, ग०। 6. समा...."क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org