Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 114
________________ ८] बौद्धशासन-परीक्षा च्यन्ते । तदुःख जननकर्मबन्धहेतुभूते अविद्यातृष्णे समुदयशब्देनोच्येते तत्र वस्तुयाथात्म्याऽप्रतिपत्तिरविद्या । इष्टानिष्टेन्द्रियविषयप्राप्तिपरिहारवाञ्छा तृष्णा । निरोधो नाम अविद्यातृप्णाविनाशेन निरास्रवचित्तसंतानोत्पत्तिलक्षणः संतानोच्छित्तिलक्षणो वा मोक्षः । तथा' मोक्षहेतुभता मार्गणा। $ ५. सा च सम्यक्त्व-संज्ञा-संज्ञीवाक्कायकर्मान्तायामाऽऽजीवस्थिति-समाधिलक्षणाष्टाङ्गाः । तत्र सम्यक्त्वं पदार्थानां याथात्म्यदर्शनम् । संज्ञा वाचकः शब्दः संज्ञी वाच्योऽर्थः । वाक्कायकर्मणी वाक्कायव्यापारौ । अन्तर्व्यायामो वायुधारणा । आजीव स्थितिरायुरवसानपर्यन्तं प्राणधारणा । समाधिर्नाम सर्व दुःख म्, सर्व क्षणिकम् , सर्वं निरात्मकं सर्व शून्यमिति सत्यभावना । तस्याः प्रकर्षादविद्यातृष्णाविगमे निरास्रवचित्तक्षणाः सकलपदार्थावभासकाः समुत्पद्यन्ते । तद्योगिप्रत्यक्षम् । स च योगी यावदायुम्तावत्कालमुपासकानां धर्ममुपदेश्य आयुरवसाने प्रदीपनिर्वाणकल्पमात्मनिर्वाणं प्राप्नोति उत्तरचित्तस्योत्पत्तरभावादिति । तदप्युक्तम् "दीपो यथा निर्वृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित् स्नेहक्षयात्केवलमेति शान्तिम् ।। जीवस्तथा' निर्वृतिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिशं न कांचित् विदिशं न कांचित् मोहक्षयात् केवलमेति शान्तिम् ॥" [ सौन्दरनन्द० १६।२८,२९ ] इति [ उत्तरपक्षः] ६. तदेतत्सौगतमतं तावत् दृष्टविरुद्धम् । सौगताभिमतस्य निरन्वयविनाशिपरमाणुमात्रलक्षणस्वलक्षणस्य स्थलस्थिरसाधारणाकारावभासिना प्रत्यक्षेण विरुद्धत्वात् । नहि प्रत्यक्षे सूक्ष्मक्षणिकासाधारणरूपाः परमाणवः प्रतिभासन्ते, स्थूलस्थिरसाधारणाकारात्मनामेव घटादीनां प्रतिभासनात् । ७ ननु परमाणुष्वेवात्यासन्नासंसृष्टेषु दृष्टौ प्रतिभासमानेषु कुत°श्चिद्विभ्रमनिमित्तादात्मनि परत्र चासन्तमेव स्थूलाद्याकारं दर्शयन्तो संवृतिः तान् संवृणोति केशादिभ्रान्तिवदिति चेत् ; नैवम् ; बहिरन्तश्च प्रत्यक्षस्य भ्रान्तत्वापत्तेः, तस्य अभ्रान्तत्वकल्पनापोढत्वाभावप्रसंगात्, “प्रत्यक्ष कल्पनापोढमभ्रान्तम्" [न्यायवि०१।४] इति लक्षणस्याऽसंभवदोषानुषंगात् । ८ ननु नैष दोषः, परमाणुप्रत्यक्षस्य तल्लक्षणसंभवादिति चेत् ; न; परमाणूनां जातुचिदध्यक्षबुद्धावप्रतिभासनात् । न हि कश्चिल्लौकिकः परीक्षको वा देशकालविप्रकृष्टार्थवत् परमाणन् साक्षात्प्रत्येति, अन्यथा प्रतीत्यपलापप्रसंगात् । त इमे परमाणवः प्रत्यक्षबुद्धावात्मानं न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्यमूल्यदानक्रयिणः । १. तन्मते हि-सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यग्व्यायामः, सम्यगाजीवः, सम्यक् प्रयत्नः, सम्यकस्मृतिः, सम्यग्समाधिश्चेत्यष्टौ। २. भावनायाः । ३. कल्पना। ४. मूल्यं दातुं न प्रभवन्ति अथ च प्रत्यक्षतामिच्छति । 1. नोच्यते क० । 2. तदा क०, खः। 3. अजीव क०, ख०। 4. -त्मकं शून्यम् क० । 5. योगि क०, ख० । 6. -रिष्टम् क०, ख । 7. जिनस्तथा क. । 8. -माने कुत-क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164