Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 112
________________ -२४] चार्वाकशासन परीक्षा २१. अथ प्रत्यक्षान्तरं स्वयमात्मानं व्यवस्थापयति पृथिव्यादि स्वविषयं च तत्र प्रवर्तनादतो न तदभावप्रसंग इति मतम्; तर्हि सर्वज्ञोऽपि स्वसंवेदनादात्मानं स्वर्गापूर्वादिविषयं च व्यवस्थापयति, इति कथं तदभावसिद्धिः, प्रमाणान्तरस्य च तद्वचनस्य 3 *हेतुवादरूपस्याऽहेतुवादरूपस्य च स एव व्यवस्थापकः स्यादिति कुतस्तदभावेसिद्धिः। सर्वज्ञः स्वपरव्यवस्थापकोऽस्तीत्यत्र किं प्रमाणमिति चेत् ; स्वप्रत्यक्षैकप्रमाणवादिनः प्रत्यक्षान्तरं स्वपरविषयमस्तीत्यत्र किं प्रमाणम्, तथा प्रसिद्धिरन्यत्रापि, इति न प्रत्यक्षं तदभावावेदकम्, अतिप्रसंगस्य दुःपरिहरत्वात् । $ २२. किं च, सर्वज्ञत्वाभावः प्रत्यक्षेण क्वचित् कदाचित् कस्यचिद व्यवस्थाप्यते, सर्वत्र सर्वदा सर्वस्य वा ? तत्राद्यपक्षे परस्येष्टापादनम् । द्वितीयपक्षे सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञाभाववचनं चार्वाकस्य । $२३. नाप्यनुमानं तदभावसाधकम्, तदनभ्युपगमात् स्वयमनुमानं निराकुर्वन्ननुमाना- . देव सर्वज्ञाभावं साधयति इति कथमनुन्मत्तः । ६२४. तदेवं बाधकामावादस्ति सर्वज्ञः । स च स्याद्वादी भगवनहन्नेवान्ययोगव्यवच्छेदेन निश्चीयते, तस्यैव युक्तिशास्त्राविरुद्धवाक्यत्वात् । अन्येषां न्यायागमविरुद्धभाषित्वात् । ततस्तदुक्तों धर्मो मोक्षश्च व्यवतिष्ठते । तन्निराकरणे चार्वाकाणां 'प्रमाणाभावस्य प्रतिपादितपायत्वात् । प्रलापमात्रस्य च प्रेक्षावतामनादरणीयत्वादिति स्थितं दृष्टेष्टविरुद्धत्वात् चार्वाकमतमसत्यमिति । स्वपराविदिताध्यक्ष चार्वाकाणां वचोऽखिलम् । भवेत् प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ।। न चार्वाकमतं सत्यं दृष्टादृष्टेष्टबाधतः ।। न च तेन प्रतिक्षेपः स्याद्वाद(स्ये)ति निश्चितम् ।। [इति चार्वाकशासन-परीक्षा] १. अनुमानरूपस्य । २. सर्वज्ञस्य प्रमाणान्तरस्य च । ३. 'अस्मिन् काले अत्र कश्चित्सर्वज्ञो नास्ति' इत्यत्र विवादाभावात् । ४. स्याद्वादितीर्थकरप्रणीतः। 1. -दिविष- क.। 2. प्रवर्तमानात् क०, ख०। 3. तद्वचस्य ख०। 4. हितवाद. ख०। 5. तदभ्युप-क०। 6.-वाक्त्वात् ख०, ग०। 7.-माणभाव-क०, ख० । 8. विधिताध्यक्षाणां चाक०, ख०। 9. -दश्चेति क०, ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164