Book Title: Satyashasana Pariksha
Author(s): Vidyanandi, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 111
________________ १८ सत्यशासन-परीक्षा [ १७ $ १७. किं च भूतचैतन्ययोर्बहिरन्तर्मुखावभासयोः बोल्यादि - रागादि- विरुद्धधर्माध्यासितयोर्द्रव्यान्तरभावेन भिन्न प्रमाणग्राह्यत्वात् भेद एव । तयोर्देशभेदेनादर्शनादभेदे शरीराकारपरितावनिवनै-पवनसख-पवनानामप्येकत्वप्रसंगात् । “उपादानकारणसदृशं हि कार्य भवति ।" [ ] इति वचनाद् धारणेरणद्रबोष्णतारूपेण भूतसादृश्याभावात्, अमूर्तचैतन्यस्य मूर्तकार्यत्वायोगाच्च शरीराद्भिन्नमेच चैतन्यम् | $ १८ तस्यै चाभिलाषो हि प्रत्यभिज्ञाने सति प्रादुर्भवति, प्रत्यभिज्ञानं च स्मरणे सति, स्मरणं च पूर्वानुभव' एव भवतीति पूर्वानुभवः सिद्धः । अन्यथा तदहर्जातबालकस्य स्तनादावभिलाषाऽभावप्रसंगात् । “मृतानां केषांचिद्रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयतां दर्शनात् केषांचिद्भवस्मृतेरुपलम्भाच्च परलोकोऽप्यस्ति । तदुक्तम् — 3 " तदहर्जस्तने हातो रक्षो दृष्टर्भवस्मृतेः । भृतानन्वयनात् सिद्धः प्रकृतिज्ञः सनातनः ॥ " [ ] इति $ १९. जननादिकारणाविशेषेऽपि सुखदुःखादिवैचित्र्यदर्शनात् पुण्यपापादिकमप्यस्त्येव । एवं प्रमाणप्रसिद्धे परलोके परलोकपुण्यपापप्रद्वेषि बृहस्पतिमतं न सतां मनो मनागपि प्रीणयति, किंतु उपालम्भमेवार्हति । स चोक्तः स्वामिभिः 'मद्याङ्गवद्भूतसमागमे शः शक्त्यन्तरव्यक्तिरदैवसृष्टिः । इत्यात्मशिश्नोदर पुष्टितुष्टैर्निहीभयैर्हा मृदवः प्रलब्धाः ॥ दृष्टेऽविशिष्टे जननादिहेतौ विशिष्टता का प्रतिसत्त्वमेषाम् । स्वभावतः किं न परस्य सिद्धिरतावकानामपि हा प्रपातः ॥ स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचार पदेष्वदोषम् । निर्घुष्य दीक्षा सममुक्तिमानास्त्वद्दृष्टिबाह्याः बत विभ्रमन्ति ॥ [ युक्त्यनु० श्लो० ३५-३७ ] इति ततो नायं बृहस्पतिराप्ततामात्मसात्करोति । $ २०. यदुक्तम् – 'सर्वज्ञो नास्ति' इत्यादि, तदपि प्रलापमात्रमेव प्रत्यक्षतः सर्वज्ञस्य मुनेः, अनुमानस्यागमस्य च नास्तित्वव्यवस्थापनासंभवात् तस्य भावविषयताभ्युपगमात् । यदि किंचित् प्रत्यक्षं तत्राप्रवर्तमानत्वादेव तदभावं व्यवस्थापयेत् तदा पुरुषान्तरादि- प्रत्यक्षान्तराणामप्यभावं तदेव गमयेत् तद्विषयाणां च क्ष्मादीनामित्यतिप्रसंगः स्वयमिष्टस्य बृहस्पत्यादिप्रत्यक्षस्यापि सविषयस्याभ वसिद्धेः । , 1 १. बाल्यादिभावो हि भौतिकशरीरगोचरः । २. जलम् । ३. अग्निः । ४. धारणं पृथिव्याः, ईरणं वाथ्वोः द्रवो जलस्य, उष्णता चाग्नेः । ५. जीवस्य । ६. तुलना - प्रमेयरल० । ७. प्रत्यक्षस्य । 1. - तराभावेन क० । 2 -नुभूत एव क० । 3. -स्कृवे क० । 4. प्रसिद्ध पर क०, ख० । 5. प्रणयति क०, ख० । 6. दृष्टि क० । 7. इदं पथं ख 'प्रतौ नास्ति' । 8. विषयत्वाभ्यु० ख० । 9. - दिना० ख० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164