Book Title: Samvatsarik Parvatithi Vicharana
Author(s): Janakvijay
Publisher: Jain Shwetambar Murtipujak Sangh Bhabher

View full book text
Previous | Next

Page 20
________________ ૧૫ dsप्युक्तान्यभविष्यन् सिद्वान्ते न तूक्तानि । तथा श्रावणे पर्वकरणे पूर्व पर्युषणातः आश्विनादय एकादशैव मासा इति व्यवहारे वर्तमानाः स्युः नाम गणिताः । आ. १, का. २, मा. ३, पो. ४ माह ५, फाल्गु. ६, चेत्र ७, वै... ८, ज्येष्ट ९, आषा. १०, श्रा ११, ततौ " बार सह मासाणं " इत्यादिक्षामणालापको मृषा स्यात् अथ श्रावणद्वय सद्भावेन द्वादशमाससद्भावात् कथं मृषेति चेत् । न तस्य नपुंसक मासत्वेनागणनात् । युष्माभिरपि चतुर्मासकादौ कर्तव्ये तद्दिनानाम् गण्यमानत्वात् । द्वयोरपि श्रावणनाम्नैव प्रसिद्धत्वात् तथा आग. मिपर्युषणापर्व च जैन लौकिक टिप्पनानुसारेण कस्यापि मासस्य वृध्ध्यभावेऽपि प्रमाणभूतैस्त्रयोदशभिरेव मासः । भा. १, आ. २, का. ३, मा. ४, पो. ५, माह ६, फागु. ७, चै. ८, वै. ९. ज्ये. १०, आषा. ११, श्रा. १२, मा. १३ मास, रूपैः स्यात् । तथाऽत्राऽपि " बारसह मासाणं " इत्यादि क्षामणकालापो मृषैव स्यात् । त्रयोदशानां लोकप्रमाणभूतानां मासानां सद्भावात् । एवं पूर्वोत्तरयोरपि पर्वणो युक्त्यभावः । अत्राह कश्चित् । सिद्धांत टिप्पनानुसारेण पंच वर्षात्मकयुगमध्ये तृतीय वर्षे पौषः पंचमवर्षान्ते आषाढो वर्द्धते । तदनुसारेण वयमाषाढमेव वर्द्धयित्वा प्रथम श्रावणे आषाढचतुर्मासकं कृत्वा विंशत्यादिनैः पर्युषण पर्व कुर्वाणाः स्म, इति सत्यं परं तट्टिप्पनं क्वास्ति, संप्रति तदनुसारेण सर्वग्रहचारपर्वतिथ्यादि स्वरूपाऽपरिज्ञानात्, यतः सिद्धान्ते । आसाढ बहुल पक्खे भद्दवए कत्तिए अपोसे अ. फग्गुण वइसाहेसु अ नायव्वा उमरत्ताउ || १॥ इति षड्विंशोत्तरा - ध्ययनादि वचनात् कृष्णपक्षसत्का एव वर्षे षट् तिथयः पतन्ति वर्द्धते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130