Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 165
________________ वीतरागस्तोत्र- अष्टमप्रकाशटीका । ||६० ॥ ननु सिद्धं स्वयंसिद्धं जगत्तत्त्वं किमेकान्तनित्यमुतैकान्तानित्यं ? नित्यानित्यं 'चेत्याशङ्काशङ्कुसङ्कुले विपश्चित्कुले स्तुतिकृदाह सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागामौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतमौ ॥१॥ सत्त्वस्यैकान्तनित्यत्वे इत्यादि । उत्पादव्ययध्रौव्यात्मकं वस्तुतत्त्वं सत्त्वम् । तस्यैकान्तनित्यत्वेऽभ्युपगम्यमाने कृतनाशाकृतागमौ स्याताम् । तथा हि- साङ्ख्यैरप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थनित्यं वस्त्वभ्युपगम्यते । तच्च यद्येवं स्यात्, तदा वस्तुनि घटादौ कुम्भकारादिकृतानां पर्यायाणां सर्वथा नाश एव स्यात्, एतच्च प्रत्यक्षविरुद्धम् । यतः- कुम्भकारादिभिर्निर्मीयमाणाः स्थासकोशकुशूलपृथुबुध्नोदराद्याकाराः कृशाकृशरूपतया क्षणे क्षणे दरीदृश्यन्ते । अतस्तेषां पर्यायाणामाविद्वदङ्गनाप्रतीतानां कृतानां 'सर्वथा विनाश एव स्यात् । ते च यदि न कृतास्तदा घटोऽप्यकृत एव स्यात्, कृतेष्वेव च तेषु घटोऽपि कृतः । एवं च सति नित्यताक्षतिः । तथाऽकृतागमसमागमोऽपि स्यात् । तथा हि-पर्यायास्तावत्त्वन्मते कूटस्थनित्यत्वादेव न केनचित्कृताः । अकृता एव च समुपस्थिताः । यदि कृताः स्युस्तदा घटस्यापि कृतकत्वे नित्य (त्व)पक्षक्षतिः । एतच्चानुष्णोऽग्निरित्यादिवत् प्रत्यक्षविलक्षणं अकृतागमस्वरूपं कः सुधीः श्रद्दधीत ? तथा ताथागतपरिकल्पिते स्वलक्षणस्य सर्वथा क्षणिकैकान्तपक्षेऽपि कृतनाशाकृतागमौ स्थिरस्थेमानमालम्बमानौ दुर्निवारावेव स्याताम् । यतः - सर्वथैव तदभिमते वस्तुनि स्वीक्रियमाणे पर्यायाणां निराधारत्वेन स्थातुमशक्तौ घटादेरनुत्पाद एव प्रसज्येत । तथा हि- पूर्वक्षणे यद्यद् घटादियोग्यं द्रव्यमासीत्, द्वितीयक्षणे तत्तत् सर्वथा निर्हेतुकं विनष्टमेव । तत् स्थासकोसकुशूलादि संस्काराधानं कस्य विधातुमुचितम् ? दृश्यन्ते च प्रत्यक्षादिप्रमाणैः संस्काराः, अतस्तन्मते कृता अप्यकृताः स्युः । तथा निरन्वयविनश्वरे वस्तुनि संस्काराणामुत्पादयितुमशक्यत्वात् कुतः स्थासादीनां पर्यायाणामवकाशः ? अतः प्रतीयते - तन्मतानिच्छयैव गलेपादिकान्यायादुपनत एवाकृतागमः । एवं च स्वपरपक्षयोरपक्षपातेनैव व्यवस्थितं नित्यानित्यात्मकम् वस्तुतत्त्वम् । प्रयोगश्चायंविवादास्पदीभूतं वस्तुतत्त्वं नित्यानित्यात्मकम्, कृतनाशाकृतागमादिदोषाभावस्यान्यथानुपपत्तेः, न च दृष्टान्तमन्तरेण हेतोर्न गमकत्वं अन्तर्व्याप्त्यैव साध्यसिद्धेः सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इत्यादिवदिति ॥ १ ॥ ननु भवतु बाह्यतत्त्वं नित्यानित्यात्मकं, परमात्मतत्त्वमेकरूपमेवाभ्युपगम्यमानमौचितीमञ्चतीत्या शङ्क्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188