Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 174
________________ 168 . हितेन्द्र की. s SAMBODHI स्तुतिकृदपि विरोधाभावमाहविरुद्धेत्यादि । हिर्यस्माद् विरुद्धवर्णसम्बन्धो मेचकवस्तुषु मिश्रवर्णपदार्थेषु दृष्टः, परं न तत्रैतद् दूषणकणघोषणान्वेषणापि कर्तुं पार्यते । यदि तत्रापि वाग्डिण्डिमाडम्बरप्रचण्डपाण्डित्यपाटवनाट्यशीलैः प्रत्यक्षादिप्रमाणोपपन्नेऽपि अनेकान्ते कापि युक्तिः प्रपञ्च्यते, तदा एवमप्यस्तु । अनुष्णोऽग्निर्द्रव्यत्वात्, जलवत् । अथैतत्प्रत्यक्षबाधितपक्षानन्तरं निर्दिश्यमानत्वेन कालात्ययापदिष्टम्, आः परमबन्धो ! पीयूषयूषं पिब । वयमपि हस्तमुत्क्षिप्य एवमेव वदामो मेचकवस्तुवत् प्रत्यक्षोपपन्नेऽप्यनेकान्ते का कुयुक्तिनिरुक्तिप्रपञ्चचातुरी ? तस्माद् विरोधादिदूषणवारणगणाधर्षणीयः परां प्रौढिरूढिं प्रपन्नोऽनेकान्तकेसरी ॥१७॥ ॥७॥ ननु भोः सभ्याः ! निभालयन्तु कौतुकम् । एते बौद्धादयः स्वयमभ्युपगम्यापि स्याद्वादं निराकुर्वन्तः किं न कुर्वन्ति स्वाधिरूढशाखामोटनन्यायम् ? एतदेव पराभ्युपगतानेकान्तवादसंवादद्वारेण दृष्टान्तयुक्त्या स्पष्टयन्नाह विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥ विज्ञानस्य संविद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन् बौद्धो नानेकान्तं निराकुर्यात् । अत एव प्राज्ञः । ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं, तस्य चांशा ग्राह्याः, इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वं चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात् ? यदि प्रकर्षेणाज्ञानं [न]स्यात् यत एकत्रचित्रपटीज्ञाने नीलानीलयोः परस्परविरुद्धयोरप्यविरोधेनोररीकारात् । तस्मात्ताथागतैरङ्गीकृत एवानेकान्तवादः ॥८॥ नैयायिकवैशेषिकयोरपि सम्प्रति प्रतिपत्तिमाह चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥९॥ एकं चित्ररूपं तत्रैव चानेकाकाररूपं प्रमाणोपपन्नं वदन्तावक्षपादकणादौ नानेकान्तवादं निराकुरुतः, तेषां हि मते मेचकज्ञानमेकमनेकाकारमुररीक्रियते । यतस्तेषामेवं सिद्धान्तसिद्धिः एकस्यैव चित्रपटादेश्चलाचलरक्तारक्तावृतऽनावृताद्यनेकविरुद्धधर्मोपलम्भेऽपि दुर्लभो विरोधगन्धः । तस्मादस्मद्वद् यौगिकवैशेषिकावप्यनेकान्तमतानुमति विनत्वन्तौ ॥९॥ तथा कापिलोऽपि नेकान्तवादापलापचापलपापमवाप्नुयादित्येतदेव स्तुतिकृत् प्रथयन्नाह इच्छन् प्रधानं सत्त्वाद्यैविरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ सङ्ख्यावतांप्रज्ञावतां मुख्याभिधेयनामधेयः साङ्ख्यः प्रधानं प्रकृति महदाधुत्पादमूलहेतुं सत्त्वरजस्तमोभिर्गुणैरन्योन्यविरोधदुद्धरैरपि ग्रथितमविरुद्धतयाभिदधानः स्वात्मनो नानेकान्तमतवैमुख्यमाख्याति । तन्मते हि प्रकृतिरेका महादाद्यात्मिका अनेकाकारा २३अङ्गीक्रियते । ततः साङ्ख्योऽपि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188