Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 179
________________ વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશટીકા तस्मादुत्पादव्ययस्थेममहिमाऽनर्थक्रियाकारित्वेन न वस्तुनि वास्तवी इति चेत् ? न, पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्य नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेः । यतोऽस्मन्मते न कूटस्थनित्यस्वरूपद्रव्यरूपं वस्तु, नाप्येकान्तानित्यपर्यायरूपं, नोभयरूपं वस्तु, येन पक्षद्वयभाविदोषावकाशशङ्का, किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यान्तरमेव वस्तु । तेन तत्सहकारिसन्निधाने क्रमेण ३५समकालं वा तां तामर्थक्रियां कुर्वन् सहकारिकृतामुपकारपरम्परामुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । Vol. XXVIII, 2005 ननु कथं वस्तुन्येकसामायिकमन्योन्यविरुद्धं परिकल्पयितुं न्याय्यमित्याशङ्कायां वदन्ति सूरयः - गोरसादिवदिति । यथा गोरसे स्थायिनि पूर्वदुग्धपरिणामो विनाशं गतः उत्तरदधिभावो उत्पन्न इति विनाशोत्पादौ सम्भवन्तौ प्रमाणबलेनोपलब्धौ तौ कथमपह्नोतुं पार्येते ? यदुक्तम् पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥१॥ घटमौलिसुवर्णार्थी नाशोत्पत्तिस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥२॥ यथा चैकस्या अङ्गुलेः स्थायिन्याः पूर्वस्थितसरलभावाभावो वक्रतासम्भवश्च । एवं त्रिभुवनभवनोदरविवरवर्त्तिपदार्थसार्थे उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः । ततः सिद्धं त्रयात्मकं वस्तुतत्त्वम् । 173 तथा च प्रयोगः-३७विवादास्पदीभूतं वस्तु नित्यानित्यसत्त्वासत्त्वसामान्यविशेषाभिलाप्यानभिलाप्याद्यात्मकं तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वात् । यद्यथैवास्खलत्प्रत्ययेन प्रतीयते तत्तथैवाभ्युपगन्तव्यम् । यथा घटो घटरूपतया प्रतीयमानो घट एव न पटः । तथैव चास्खलत्प्रत्ययेन प्रतीयमानं वस्तु तस्मान्नित्या नित्याद्यात्मकम् । न चात्र स्वरूपासिद्धो हेतुस्तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वस्य सर्वत्र वस्तुनि तिष्ठमानत्वात् । न हि स्वरूपपररूपाभ्यां भावाभावात्मकत्वेन द्रव्यपर्यायरूपादिभिर्नित्यानित्याद्यात्मकत्वेन सर्वस्मिन् पदार्थे प्रतिभासः कस्यचिदसिद्धः । तत एव न सन्दिग्धासिद्धोऽपि न खल्वबाधरूपतया प्रतीयमानस्य वस्तुनः सन्दिग्धत्वं नाम । नापि विरुद्धः, विरुद्धार्थसंसाधकत्वाभावात् । न हि एकान्तेऽपि तथैवास्खलत्प्रत्ययप्रतीयमानत्वमास्ते, येन विरुद्धः स्यात् । नापि पक्षस्य प्रत्यक्षादिबाधा, येन ३९ हेतोरकिञ्चित्करत्वम् । नापि दृष्टान्तस्य साध्यविकलता साधनविकलता वा । न खलु घटे नित्यानित्याद्यात्मकत्वं तथैवास्खलत्प्रत्ययप्रतीयमानत्वं ४° चासिद्धम् । तस्मादनवद्यं प्रयोगयोगमुपश्रुत्य किमित्यनेकान्तो नानुमन्यते ? ॥११॥ इति अष्टमप्रकाशवृत्तिः सम्पूर्णा ॥ शुभं भवतु ॥ पादटीप : १. वेत्याशङ्का पाठा० । २. विनाश एव स्यात् पाठा० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188