Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 178
________________ 172 જિતેન્દ્ર બી. શાહ SAMBODHI . कदाचन निर्लेपीभवति । यथा अनागतकालस्तथा चानन्तानन्तसङ्ख्योपेता भव्या इत्यनुच्छेदो भव्यानाम् ॥१०॥ एवं सत्प्रमाणप्रतिष्ठितेष्वात्मतत्त्वतदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गादिषु कुग्रहग्रहिलतयैवाप्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाह विमतिः सम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥ तस्य सर्वापलापलोलुपस्य चार्वाकस्य विप्रतिपत्तिः सम्प्रतिपत्तिर्वा न मग्यतेन विलोक्यते यस्य परभवभृदपुनर्भवेषु सर्वसम्मतेष्वपि मतिर्मुह्यति । मीमांसामांसलमतिर्मीमांसकोऽपि सर्वज्ञापलापं प्रलपन् संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकस्तु महापापी तत्कथयाप्यलं । कलाकौशलशालिनाम् ॥११॥ ननु ताथागतादीनामुपपत्त्या साम्मत्यं चार्वाकस्य वराकस्योपेक्षामुपक्षिप्तवान् तदत्र मीमांसामांसलमतेर्मीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः । उच्यते-समस्तमतविक्षेपेण स्वयमेव प्रकारान्तरेण अनेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्ध सर्वमतसम्मतमनेकान्तमतम् । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षमं ततस्तत् सत्त्वमप्यनेकान्तात्मकमेव इति उत्पादयन् (उपपादयन्) अधुना सर्वमतप्रपन्नानेकान्तयुक्त्या वस्तुनः परमार्थसत्त्वमाह तेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तु सत् ॥१॥ हे भगवन् ! तेन कारणेन कृतधियः कृतिनस्त्वप्ररूपितमेव वस्तु वस्तुवृत्त्या सत् पारमार्थिकमितियावत् प्रपन्ना अङ्गीकृतवन्तः । कथम्भूतं वस्तु इत्याह-उत्पादव्ययस्थेमसम्भिन्नं उत्पादविनाशस्थितिस्वभावम् को भाव उत्पादादयः समुदिताः सत्त्वं गमयन्ति ? सत एव तद्भावात्, न हि सर्वथाप्यसतस्तुरङ्गशृङ्गादेः केनचिदप्याकारणानुपाख्यायमानश्चोत्पादादयो भवितुमर्हन्ति । तस्मादुत्पादादिमत्त्वं सत्त्वम् । यदुवाच वाचकमुख्य:- ३३' उत्पादव्ययस्थेमयुक्तं वस्तु सत्' । पारमर्षमपि 'उप्पनेइ वा विगमेइ वा धुवेइ वा' इति ।' तत्र द्रव्यं पर्यायात्मकमिति भणनेन द्रव्यैकान्तपर्यायैकान्तपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनिरासः । यतः श्रीसिद्धसेन: दोहिं वि नएहिं नीअं सत्थमुलूएण तह वि मिच्छत्तम् । जं सविसयपहाणत्तणेण अनुन्ननिरविखम् ॥ इति । अथेत्थमाचक्षीथाः-न द्रव्यं पर्यायात्मकं परमार्थसत्, एकान्तनित्यानित्यवस्तुवदनर्थक्रियाकारित्वात् । तेन च किम् ? यत अर्थक्रियार्थी सर्वोऽपि विपश्चित्, एतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न ३ घटाकोटिसण्टङ्कमारोहति । यतः प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188