Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 176
________________ 170 જિતેન્દ્ર બી. શાહ SAMBODHỊ २६अथेत्थमाचक्षीथा:-जन्मान्तरादुत्पत्तिप्रदेशमागच्छनात्मा प्रत्यक्षेण न लक्ष्यते । नन्वेवं वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति, न साक्षाल्लक्ष्यन्त इति भवत्पक्षेऽपि पक्षपातं विना सामान्यं भूतेषु वपूरूपपरिणतेष्वेव चैतन्यमुपलभामहे, नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयामः, इति चेत् ? तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते ? वपूरूपविवर्त्तश्च कादाचित्कत्वान्यथानुपपत्त्याऽवश्यं कारणान्तरापेक्षीत्यतस्तत्सम्पादनसमर्थं जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च, आत्मा तावत्पूर्वशुभाशुभचैतन्ययोगाद् देहसम्पादनायोत्तिष्ठते, इति सौष्ठवप्रष्ठमेव, महद्भूतानि पुनः किरूपाणि चैतन्यं कर्तमारभेरन, २ चैतन्यवन्ति चैतन्यरहितानि वा ? यदि प्रथमः पक्षस्तदा विकल्पद्वयमुदयते, तेभ्यस्तच्चैतन्यं व्यतिरिक्तमव्यतिरिक्तं वा । व्यतिरिक्तं चेत् ? ततो नरशरीरेष्वेव महद्भूतेष्ववस्थितं भूतविसदृशमेव स्वहेतुमवस्थापयति, इति निजवचसैवात्मानमनुमन्यमानः किमिति कुविकल्पकल्पनेन स्वं क्लेशयसि । अथाव्यतिरिक्तम्, एवं सति सर्वमहद्भूतान्येकतां धारयन्ति, . एकचैतन्याभिन्नत्वात्, निजस्वरूपवत् । अथ पृथग् स्वस्वचैतन्याभिन्नानां तेषां नायं प्रेरणावकाशः इति मन्येथाः तदपि न, यतस्तज्जन्यनरशरीरेऽपि भूतोत्पाद्यचैतन्यचतुष्टयप्रसङ्गः । अथ चत्वार्यपि एकीभूय बहवस्तन्तव इव पटं महत्तरं चैतन्यं जनयेयुरिति ब्रूषे तदा तच्चैतन्यं किं भूतसंयोग उत तज्जन्यमन्यदेव किञ्चिदिति वाच्यम् । भूतसंयोगश्चेत् ? तदयुक्तं, चैतन्यानामन्योन्यसंयोगासिद्धिः, अन्यथा प्रचुरतरचैतन्यान्येकीभूय महत्तमं जनयेयुः न चैतत् दृष्टमिष्टं वा । अथ भूतोत्पाद्यमन्यदेव किञ्चिदिति । एतस्मिन्नपि किं तेषामन्वयोऽस्ति न वा ? अस्ति चेत् तदा पूर्ववद्भूतजन्यचैतन्यचतुष्टयतापत्तिः, अथ नास्ति तदप्यसङ्गतम्, निरन्वयोत्पत्तेर्युक्तिरिक्तत्वात् । तस्मान्न सचैतन्यानि चैतन्यं जनयेयुर्भूतानि, न च तद्रहितानि तेषामत्यन्तविसदृशत्वेन चैतन्योत्पत्तिविरुद्धत्वात् । अन्यथा सिकतादिभ्योऽपि तैलमुत्पद्येत । अन्यच्च- भूतनिचयमात्रजन्यं चैतन्यं तत्परिणतिविशेषजन्यं वा स्यात् ? न तावत्प्रथमः पक्षः क्षोदक्षमः, अवनिजीवनपवनदहनयोजनेऽपि चैतन्यानुपलम्भात् । द्वैतीयीकपक्षे कः पुनः परिणामविशेष इति पृच्छामः । वपूरूपपरिणतिरिति चेत् ? ततः सा सर्वकालं कस्मान्न भवति ? किमपि कारणान्तरमाश्रित्योत्पद्यते इति चेत् ? तदा तत्कारणान्तरं जन्मान्तरागतात्मचैतन्यमिति वितर्कयामः, तस्यैव वपूरूपपरिणतिजन्यचैतन्यानुरूपोपादानकारणत्वात् । तदभावे वपूरूपपरिणतौ सत्यामपि मृतदशायां भूतसद्भावेन चलनादिक्रियाऽनुपलम्भात् । तन्न वपूरूपपरिणतिजन्यं चैतन्यम्, किन्तु सैव तज्जन्येति क्षोदक्षमं लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणम्, न च तेन गमनागमनादिकं भवान्तराच्चैतन्यस्योपलभामहे । तेन तल्लक्षाण्येव भूतानि तद्धेतुतया निर्दिशामः इति तदप्यसत् । यतः केवलप्रत्यक्षाश्रयेण देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनामप्यभावप्रसङ्गः, तेन च भवदादीनामप्यनुत्पत्तिप्रसङ्गः । इत्यतो बलात्कारेणैव अनुमानादीनि प्रमाणानि प्रतिपत्तव्यानि, सन्ति चानुमानानि अनेकशः । तथा हि-अस्ति कश्चिद्देहे तदतिरिक्तश्चेतनः, सुख्यहं दुःख्यहमित्याद्यनुभवस्यान्यथाऽनुपपत्तेः । यदि च न स्यात्, तदा सुखाद्यनुभवोऽपि न स्यात्, यथा मृतशरीरे । तथा हि हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका विशिष्टक्रियात्वात्, रथक्रियावत् । यश्चास्य प्रयत्नस्य कर्ता सोऽयमस्मत्सम्मतश्चेतनः । न च निरुक्तयुक्तिप्रतिहतेन भवता इहभव एव देहातिरिक्तः कश्चिदस्ति न त्वमुष्मिन्निति विप्रतिपत्तव्यं, जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्ठितत्वात् । तद्यथा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188