Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 175
________________ Vol. XXVIII, 2005 अनेकान्तमतसम्मुख एव ॥ ननु भोः ! क एष आर्हतमतपाण्डित्यविशेषमाविष्कुर्वन् दुर्गतसौगताद्यङ्गीकृतचित्रज्ञानादिदृष्टान्तावष्टम्भेनानेकान्तवादं स्पष्टयन्नाचष्टे ? प्रथमं तावज्जीव एव नास्ति, क्व तदाश्रित श्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कथा । तथा हि- सकलेऽप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि वस्त्वन्तरमस्ति । प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात् यद्यदेवं तत्तन्नास्ति, यथा तुरङ्गमोत्तमाङ्गशृङ्गम्। न च वाच्यम्-प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्यान्यथानुपपत्त्या तद्धेतुः कश्चिदवश्यं परिकल्पनीयः, भूतचतुष्टयस्यैव तद्धेतुत्वेनाविगानात् । વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશટીકા 169 २४ अथेत्थमभिदधीथाः कथं जडात्मकानि भूतानि तद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति । तदपि न, न खल्वेकान्ततः कारणानुरूपमेव कार्यमुत्पद्यते, अननुरूपस्यापि दर्शनात्, यथा मद्याङ्गेभ्यो मदशक्तिः । एवं च वपूरूपपरिणतानि महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति । तच्च कायाकारविवर्त्तेष्ववतिष्ठते, तदभावे पुनर्भूतेष्वेव लीयते इति न कश्चिद्भूतोद्भूतचैतन्यव्यतिरिक्तः चैतन्यहेतुतया परिकल्प्यमानः परलोकयायी जीवोऽस्ति, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः, परलोकयायिनोऽभावे परलोकस्याप्यनुपपन्नत्वात् । सति हि धर्मिणि धर्माश्चिन्त्यमानाः २५ समीचीनतां परिचिन्वन्ति । किञ्च परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्मावपि आकाशकुशेशयविंकाशनीकाशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमपि अलीकसङ्कल्पविलसितम् । विना हि धर्माधर्मौ कुतस्तत्फलभोगभूमिसम्भवः ? यच्चैवमपि एकान्तिकपुण्यपापक्षयोत्थमोक्षपक्षपातिता सा विगलितदृशश्चित्रशालोपर्णनमिव कस्य नाम न हास्यावहा ? इति यत्किञ्चिदेतत् । अत्र प्रतिविधीयते - योऽयमतिप्रमाणप्रवणेन भवताऽऽत्मनिरासाय प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः स एव तावदसिद्धः, जीवस्य स्वसंवेदनप्रत्यक्षविषयत्वात् । तथा हि- सुख्यहं दुःख्यहमित्यादि स्वसम्बद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निर्बाधकत्वेन, न चायं प्रत्ययो भ्रान्तः । चैतन्यान्वितदेहलक्षणपुरुषगोचरत्वेऽपि गौरोऽहं स्थूलोऽहं इत्यादिप्रत्ययः सङ्गच्छतेऽतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेत्? न, भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् । यथा पटोऽयमिति बहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि, यदि शरीरगोचरो भवेत्, ततोऽयं सुखीत्येवं बहिर्मुखः स्यात्, अन्तर्मुखश्चायमनुभूयते । न हि कोऽप्यहं सुखीत्यादिप्रत्ययं देहे विधत्ते, किन्तु देहातिरिक्ते कस्मिंश्चित् इत्यतः प्रतीयतेसुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव, न भूतगोचरः, बहिर्मुखत्वेनानवभासनात् । Jain Education International यच्चोक्तम्-वपूरूपपरिणतानि महद्भूतान्येव चैतन्यमुद्बोधयन्तीत्यादि तदप्यविकलविकलताविलसितं यतः- यदि हि महद्भूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्गतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता कल्पनीयम्, तदा चैतन्यमेव जन्मान्तरादुत्पत्तिस्थनमागतं चतुर्भूतभ्रमाधायिदेहमुत्पादयेत् । भूयोभवान्तरगामुकं सत् तत् त्यजेत् । तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात् तद्विनिर्मुक्तं भूयो दारुवदासीत । इति आत्मजन्यमेव वपुः, न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः, सचेतनस्यात्मनः कर्मावष्टब्धतयाऽन्यान्यभवभ्रमणाऽन्यान्यदेहसम्पादनयोर्घटनाघटितत्वात् । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188