Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 177
________________ 171 Vol. XXVIII, 2005 વિતરાગસ્તોત્ર-અષ્ટમપ્રકાશદીકા तदहर्जातबालकस्याद्यस्तन्याभिलाषः पूर्वाभिलाषपूर्वक: अभिलाषत्वात्, द्वितीयदिवसादिस्तन्याभिलाषवत् । तदिदमनुमानमाद्यस्तन्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति, तज्जन्मन्यभिलाषान्तराभावात् । किञ्च, यदुक्तम्-एतावता धर्माधर्मावपि नभोऽम्भोजनिभौ मन्तव्यौ इति तदप्यपाकृतम् । तदभावे सुखदुःखयोनिर्हेतुकत्वात् अनुत्पाद एव स्यात् । स च प्रत्यक्षविरुद्धः तथा हि-मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्तोऽपरे पुनस्तत्प्रेष्यभावमाबिभ्राणाः । एके च लक्षम्भरयोऽन्ये तु स्वोदरदरीपूरणेऽप्यनिपुणाः । एके देवा इव निरन्तरसरसविलाससुखशालिनः, इतरे नारका इवोनिद्रदुःखविद्राणचित्तवृत्तयः, इत्यतोऽनुभूयमानसुखदुःखनिबन्धनौ धर्माधर्मों स्वीकर्तव्यौ । तदङ्गीकरणे च विशिष्टयोस्तत्फलयो गभूमी स्वर्गनरकावपि प्रतिपत्तव्यौ, अन्यथाऽर्धजरतीयन्यायप्रसङ्गः स्यात् ।। एवं च पुण्यपापकर्मक्षयोत्थमोक्षपक्षोक्तदूषणमप्यननुगुणं गणनीयम् । न च वाच्यम्, यदुत बन्धः कर्मजीवसंयोगलक्षणः स आदिमान् आदिरहितो वा । तत्र यदि प्रथमो विकल्पः, ततो विकल्पत्रयप्रसङ्गः । किं पूर्वमात्मनः प्रसूतिः पश्चात् कर्मणः ? यदि वा पूर्वं कर्मणः पश्चादात्मनः ? अथवा युगपदुभयस्येति ? किश्चातः सर्वत्रापि दोषः तथाहि-न तावदात्मनः २९प्राक्प्रसूतिः निर्हेतुकत्वात्, व्योमकुसुमवत् । नापि कर्मणः प्राक्प्रसूति:, कर्तुरभावात्, न चाकृतं कर्म भवति । युगपत्प्रसूतिरप्यसङ्गता, कारणाभावात् । न चानादिमत्यात्मनि बन्धो घटामटाट्यते, बन्धकारणाभावाद् गगनस्येव । इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात्, तथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति । अथ द्वितीयः पक्षस्तर्हि नात्मकर्मवियोगो भवेदनादित्वात्, आत्माकाशसंयोगवत्, इति मोक्षानुपपत्तिरिति, यतो जीवोऽनादिनिधनः, सत्त्वे सत्यहेतुकत्वात् । कर्मापि प्रवाहतोऽनादिमत् । ततो जीवकर्मणोरनादिमानेव संयोगो, धर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणानवकाशः । ... योऽपि द्वितीयपक्षेऽभिहितोऽनादित्वात् संयोगस्य वियोगाभाव इति सोऽप्यसमीचीनः, तथाऽदर्शनात् । तथा च, काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानो दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद् दोषः । अथ यद्यनादि सर्वं कर्म ततस्तस्य जीवकृतकत्वानुपपत्तिर्जीवकृतकत्वेनानादित्वविरोधात्, तदसम्यग्, वस्तुगत्यनवबोधात् । तथा हि-जीवेन तथा मिथ्यादर्शनादिसव्यपेक्षेण तथा तदुपादीयते कर्म यथा तेन जीवेन कृतमुच्यते । तच्च तथाप्रवाहापेक्षया चिन्त्यमानमादिविकलमित्यनादि । निदर्शनं चात्र कालः, यथा हि यावान् अतीतकालस्तेनाशेषेण वर्तमानत्वनुभूतम्, अथ चासौ प्रवाहतोऽनादिः, एवं कर्मापीति । यदुक्तम्-मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावादिति, तदप्ययुक्तम्, विशेषाभावासिद्धेः । तथा हिसंसारी जीवः कषायादियुक्तः, कषाययुक्तश्च कर्मणो योग्यान् पुद्गलानादत्ते इति तस्य कर्मबन्धोपपत्तिः, मुक्तश्च कषायादिपरिणामविकलः, शुक्लध्यानमाहात्म्यतस्तेषां समूलमुन्मूलितत्वात् । ततो मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः । न च वाच्यम्, एवं सति तर्हि निरन्तरमुक्तिगमनतो भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्तसङ्ख्योपेतत्वात् । इह यद् यदनन्तसङ्ख्योपेतं तत् तत्प्रतिसमयमेकद्विव्यादिसङ्ख्ययापगच्छदपि न Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188