Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 173
________________ Vol. xxVIII, 2005 વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશદીકા 167 दोषानुषङ्गस्तस्य प्रागेव निराकृतत्वात् ॥९॥ यच्चोक्तम्-क्रमेणेत्यादि, न तद्युक्तम् । क्रमेण चाक्रमेण चानेकान्तस्याभ्युपगतत्वात् । क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षया चाक्रमेणेति ॥१०॥ यच्चोक्तम्-अनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुयानानास्वभावैर्वेत्यादि, तत्र नैकेन स्वभावेन नानास्वभावैर्वा भिन्नवस्तु भिन्नान् स्वभावान् स्वतो व्याप्नुयादिति जैनो मन्यते । किं तर्हि स्वकारणकलापादनेकस्वभावात्मकं मतमिति ॥११॥ यच्चोक्तम्-जलादेरप्यनलादिरूपता स्यादित्यादि तदप्यनुपपन्नं, जलादेहि स्वरूपापेक्षया जलादिरूपता, न पररूपापेक्षया । ततो न जलादौ जलाथिनोऽनलादिरूपस्य दर्शनं, यतस्तत्र प्रवृत्तिर्न स्यात्प्रेक्षापूर्वकारिण इति ॥१२॥ __यच्चोक्तम्-प्रमाणमप्यप्रमाणं स्यादित्यादि तदपीष्टमेव, प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपतायाः पररूपापेक्षया चाप्रमाणरूपतायाः स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप: स्यात्, उक्तन्यायेन प्रमाणाप्रमाणव्यवहारस्य लोके प्रमाणेऽपि प्रसिद्धित्वादिति ॥१३॥ यच्चोक्तम् -सर्वज्ञोऽप्यसर्वज्ञः स्यादिति तदपीष्टमेव, असर्वज्ञरूपेण सर्वज्ञस्याप्यसर्वज्ञरूपताया १७अभ्युपगमात् इति प्रकारान्तरेण च तस्यासर्वज्ञता न सम्भवत्येवऽप्रमाणबाधनादिति ॥१४॥ यच्चोक्तम्-सिद्धोऽप्यसिद्धः स्यादित्यादि तदपीष्टमेव, पररूपापेक्षया सिद्धस्याप्यसिद्धरूपताया अभ्युपगतत्वादिति ॥१५॥ यच्चोक्तम्-येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यादित्यादि, तत्रोच्यते-प्रमेयं हि द्विविधमचेतनं चेतनं च । तत्राचेतनं स्वपराध्यवसायविकलं न स्वस्यैकान्तरूपतामनेकान्तरूपतां च परिच्छेत्तम अलम् । चेतनेन तत्रानेकान्तरूपता परिच्छिद्यते । चेतनञ्च स्वस्याप्यनेकान्तरूपतां परिच्छेदयितं समर्थम. न तत्तत्रापरं प्रमाणमपेक्ष्यते येनानवस्था स्यात । तथा हि-चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत्स्वरूपापेक्षयात्मनो भावं पररूपापेक्षया चाभावं परिच्छिनत्ति, अन्यथा यथावदसङ्कीर्णस्वरूपस्य ग्राहकं न स्यात्, न चैवं व्यावृत्ताव्यावृत्तस्वरूपस्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित्तत्रापि स्वदुरागमाहितवासनावशादेकान्तसमारोपः सोऽपि तस्य नयान्तरान्निराकर्त्तव्य:१९ । तथा हि- धूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वम्, तथा २°साध्यान्तरं प्रति विद्यते न वा ? यदि गमकत्वमेवाङ्गीक्रियते तदा साध्यान्तरस्यापि तत एव सिद्धेलिङ्गान्तरकल्पनावैफल्यं स्यात्, ततः सर्वस्यापि साध्यस्य सिद्धेरिति । उतान्यथा, तर्हि यथैकं लिङ्गं गमकत्वागमनकत्वरूपेणानेकान्तरूपम्, तथा सर्वं वस्तु स्वपरकरणसामर्थ्यनानेकान्तरूपमस्तु, विशेषाभावादिति ॥१६॥ .. यदप्युक्तम्-बाधकं प्रमाणमस्ति भेदाभेदौ न एकाधिकरणौ इत्यादि तदप्यनुपपन्नं, पक्षस्य प्रत्यक्षेण बाध्यमानत्वात् हेतोश्च कालात्ययापदिष्टत्वात् । अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् इत्यादिवत् । २१भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् न चोभयोविरुद्धधर्मयोरपि सतोः कापि क्षितिरीक्ष्यत इति पर्यालोच्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188