Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 171
________________ વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશટીકા Vol. XXVIII, 2005 विवक्षितार्थक्रियार्थिनां प्रवृत्तिर्दर्शनात् ॥१२॥ किञ्च, प्रमाणमप्यप्रमाणमप्रमाणं वा प्रमाणं वा भवेत्, तथा च सर्वजनप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोपो भवेत् ॥१३॥ किञ्च, सर्वज्ञोऽप्यसर्वज्ञः स्यात् ॥ १४॥ किञ्च, सिद्धस्यापि असिद्धत्वं स्यत् ॥१५॥ किञ्च, येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपता सिद्धिर्यदि स्वतस्तर्हि सर्वस्यापि तथा भविष्यति किं प्रमाणपरिकल्पनया, अथ परतस्तर्ह्यनवस्था ||१६|| 165 किञ्च, १० अनेकान्ते बाधकं प्रमाणमस्ति । तथा हि-भेदाभेदादिकौ धर्मों नैकाधिकरणौ १"परस्परविरुद्धधर्मिद्वयधर्मत्वात्, शीतोष्णस्पर्शवत् ॥१७॥ ॥६॥ तस्मादेकान्तरूपमेव वस्त्विति स्थितम् ॥१०॥ विरोधादीनाशङ्क्य तन्निराकुर्वन्नाह द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥ ७॥ एकस्मिन् पृथ्वीपृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषम् । कथमिति चेदित्याह -असत्प्रमाणप्रसिद्धेः किमपि न तत्प्रमाणं प्रामाणिकम्मन्यैः प्रमाणीक्रियते, येन विरोधादीनां सिद्धिः साध्यते । तथा हि-यत्तावदुक्तं विरोधो बाधकः स्यादिति, तदयुक्तम्, पर्यायरूपतया भेदोऽभ्युपगम्यते द्रव्यरूपतया चाभेदस्तयोश्चैकत्र रूपरसयोरिव सत्त्वासत्त्वयोरिव वाऽविरोधसिद्धेः । प्रतीयमानयोश्च कथं विरोधो नाम ? स ह्यनुपलम्भसाध्यो, यथा वन्ध्या गर्भे स्तनन्धयस्य । Jain Education International नंनु सत्त्वासत्त्वयोरेवेति दृष्टान्तोऽप्यसिद्ध इति चेत् ? तन्त्र, स्वद्रव्यक्षेत्रकालभावापेक्षया सत्त्वरूपस्य परद्रव्यक्षेत्रकालभावापेक्षया वाऽसत्त्वस्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धौ प्रतिभासनात् । न खलु पदार्थस्य सर्वथा सत्त्वमेव स्वरूपम्, स्वरूपेणैव पररूपेणापि सत्त्वप्रसङ्गात् । नाप्यसत्त्वमेव, पररूपेणैव स्वरूपेणाप्यसत्त्वप्रसङ्गात् । न च स्वरूपेण सत्त्वमेव पररूपेणासत्त्वम्, पररूपेण वा ऽसत्त्वमेव स्वरूपेण सत्त्वम्, तदपेक्ष्यमाणनिमित्तभेदात् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्य सत्त्वप्रत्ययं जनयति पदार्थः, परद्रव्यादिकं त्वपेक्ष्यासत्त्वप्रत्ययम्, इत्येकत्वद्वित्वादिसङ्ख्यावदेकस्मिन् पदार्थे सत्त्वासत्त्वयोर्भेदः । न चैकस्मिन् वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्ष्यैकत्वसङ्ख्यातो नाऽन्या प्रतीयते । नापि सा स्वरूपात्तद्वतो भिन्नैवास्याऽसङ्ख्येयत्वप्रसङ्गात् सङ्ख्यामेव नारोहतीति यावत् । सङ्ख्यासमवायातत्त्वमित्यप्ययुक्तम्, कथञ्चित्तादात्म्यव्यतिरेकेण समवायस्यासम्भवात् । तस्मात् सिद्धोऽपेक्षणीयभेदात् सङ्ख्यावत् सत्त्वासत्त्वयोर्भेदः । तथाभूतयोश्चानयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधो, यतो दृष्टान्तो न स्यात् । भ्रान्तेयं प्रतीतिरित्यपि मिथ्या, बाधकस्याविद्यमानत्वात्, १४ विरोधो बाधक इति चेत् ? तदसत्यम्, इतरेतरा For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188