Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 169
________________ 163 Vol. xxVIII, 2005 વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશદીકા क्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनादिति साङ्ख्यः कश्चित् सोऽपि न दक्षः, प्रमाणविरोधात्, अध्यक्षत तो लिङ्गजादेर्वा नित्यार्थक्रियायाः कदाचिदपरिवेदनात । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्ति, इति चेत् ? न तथाबुद्ध्यानध्यवसायात् । न खलु बुद्ध्यानध्यवसितां चेतनां पुरुषश्चेतयते, बुद्धिकल्पनावैयर्थ्यप्रसङ्गात् । सर्वशब्दादेविषयस्य बुद्ध्याध्यवसितस्यैव पुंसां संवेद्यत्वसिद्धेः । स्यान्मतम्, न चेतना नाम विषयभूतार्थान्तरमात्मनोऽस्ति, या बुद्ध्याऽध्यवसीयते, तस्यास्तत्स्वरूपत्वात् स्वत:प्रकाशनाच्च । तदप्यनुपपन्नं, तदर्थक्रियाकारित्वायोगात् । न ह्यर्थक्रियावत् स्वरूपमिव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति, तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च स्वस्मिन् परत्र च प्रतीतेः । सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि ब्रुवाणः कथमनुन्मत्तः स्यात् । तत एकान्तनित्यत्वे प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा यथा विचार्यते तथा तथा विशीर्यते । अथ बौद्धः प्राह-नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासम्भवादस्मत्पक्ष एव क्षणिकैकान्तलक्षणः श्रेयान् । तदपि न, तत्रापि तस्यासिद्धेः । तथा हि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वात् । यद् यदनर्थक्रियाकारि तत्तन्नास्तीत्युपलब्धम्, यथा ब्रह्माद्वैतम् । अनर्थक्रियाकारी च क्षणिकैकान्तः, तस्मान्नास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धस्तस्य क्षणिकैकान्ते विद्यमानत्वात् । तथा हि-सर्वथा क्षणिक: पदार्थः स्वामर्थक्रियां क्रमेण करोति, यौगपद्येन, उभयरूपेण वा ? न तावद्देशक्रमेण कालक्रमेण वा स्वं कार्यं कर्तुमलम्, तस्याक्रमत्वात् चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते । “सर्वथाऽनित्यत्वात् नापि यौगपद्येन । एकस्मिन्नेव क्षणे सकलकार्यकदम्बकस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वेन तस्याऽसत्त्वात् सकलशून्यता स्यात्, न चैवम् । किञ्च, यदि यौगपद्येन कार्यं करोति, तर्हि क्रमेण कार्योपलम्भो न स्यात्, अस्ति च । कुम्भकार एकस्मिन् क्षणे घटं कुर्वन् उपलभ्यते, द्वितीयादौ च घट्यादिकमिति । नाप्युभयरूपेण, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथाकथञ्चित्, किं विद्यमानोऽविद्यमान उभयरूपो वा करोति ? न तावद्विद्यमानः, क्षणभङ्गभङ्गप्रसङ्गात् । किञ्च, यदि सन्नेव क्षणिकः पदार्थः कार्यं करोति, तर्हि त्रैलोक्यमेकक्षणवर्ति स्यात् । करणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात् तेषां च सन्तानाभावः स्यात्, नाप्यविद्यमानश्चिरतरविनष्टवत्, नाप्युभयरूप उभयपक्षनिक्षिप्तदोषानुषङ्गात् । एवमेकान्तक्षणिकत्वपक्षेऽपि नार्थक्रियाकारित्वं घटकोटिसण्टङ्कमाटीकते । तस्मादेकान्तमताभिनिवेश: परतीथिकानां कदाशापाश एव ||४|| एतदेव निगमयन्नाह यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चनः ॥५॥ यदा पुनर्वस्तुनो विवादास्पदीभूतस्य स्तम्भकुम्भाम्भोरूहादिनित्यानित्यरूपता भवेत् तदा नैव दोषकालुष्यलक्ष्यता काचन । ननु नित्यानित्यत्वं को वै न मन्यते ? परमाणुरूपतया नित्यस्य, कार्यरूपतया वानित्यस्य स्तम्भादेर्वस्तुनो वैशेषिकैः परस्परनिरपेक्षतया मीमांसकैश्चाभ्युपगमादस्त्वेवमिति चेदित्यारेकामेकामाशङ्क्य भगवन्तं साक्षात्कुर्वन्निव प्राह-यथेत्यादि । हे भगवन् ! यथैव त्वमात्थ ब्रूषे वस्तुनो नित्याऽनित्यत्वं तथैव न दोषः, अन्येषां नानादोषकल्मषमषीकलुषितत्वात् । एतदवष्टम्भाय दृष्टान्तमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188