Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 168
________________ 162 જિતેન્દ્ર બી. શાહ SAMBODHI यवाङ्करस्याकारकं, यवसहितमपि तस्य कारकं नाम । किञ्च, यदि सहकारिभिनित्यस्य न किञ्चित् क्रियते, तहि कथं तेषामपेक्षा ?, अनुपकारिणामपेक्षाऽयोगात् । ननु न नित्यस्य सहकारिभिः किञ्चित् क्रियते तेन वा तेषां, किन्तु सह मिलित्वा कार्यमेव विधीयते, 'सह कुर्वन्ति' सहकारिण इति व्युत्पत्तेरिति चेत्, उच्यते । व्यस्तानां तेषां कार्यकरणसामर्थ्यमस्ति न वा ? यद्यस्ति, समुदिता एव कुर्वन्तीति नियमो न लभ्यते, व्यस्ता अपि कुर्वन्ति । अथ नास्ति, कुतस्तद्भवेत् ? कारणभावात्, अन्यथाऽनित्यत्वप्रसङ्गात् । ननु न नित्यस्य पदार्थस्य कुतश्चित्कारणकार्यकरणसामर्थ्यमुपजायते, येन तस्यानित्यत्वमापद्यते, किन्तु तस्येत्थम्भूतः स्वभावो, येन सहकारिसहित एव कार्यं करोति, नान्यदेति चेत्, स स्वभावस्तस्य निर्हेतुकः सहेतुको वा ? प्रथमपक्षे नियते देशे नियते काले च तस्य सद्भावो न स्यात् । न खल्वाकस्मिकस्य तथासद्भावः, कारणाधीनत्वात् तथाभावस्य । अथ सहेतुकः स यदि सहकारिभ्योऽन्यतो वा भवेत् स चेत्तस्मादनन्तरं तदा तस्यानित्यत्वम् अर्थान्तरपक्षस्य कथञ्चित्पक्षस्य च पूर्वमेव निराकृतत्वात् । . किञ्च, सहकारिणः किं नित्या अभ्युपगम्यन्ते, अनित्या वा, नित्यानित्यरूपा वा ? प्रथमे विकल्पे नित्यवत् प्रसङ्गो, द्वितीये काचपिच्यम्, तृतीयस्तु न श्रेयान्, अनभ्युपगमात् । तन्न नित्यस्य पदार्थस्य देशक्रमेण कार्यकारित्वं घटते । नापि कालक्रमेण, कालक्रमस्यापि नित्यैकस्वभावस्य भावस्यासम्भवात् । स ह्येकदा काले कार्य कृत्वा पुन: कालान्तरे कार्यकरणमुच्यते । न च नित्यैकस्वभावस्य भावस्येत्थम्भूतः कालक्रमो घटते, सर्वथा नित्यत्वव्याघातप्रसङ्गादिति कालक्रमेणापि न कार्यकारित्वं घटते । नापि यौगपद्येन, यौगपद्यं ह्येकस्मिन् क्षणे कालान्तरभावि सकलकार्यकारित्वम् । तत्र च क्रमेण कार्योपलम्भो न स्यात्, अस्ति च कार्योपलम्भः, तथाहि-अन्तस्तावदात्मनः स्रक्चन्दनवनितादिसामग्रीसन्निपाते सुखलक्षणं कार्यमुपलभ्यते, अहिकण्टकविषादिसन्निधौ तु दुःखम् । न पुनर्यस्मिन्नेव क्षणे सौख्यं तस्मिन्नेव दुःखं, तथोपलम्भाभावादुभयसामग्यसन्निधाने त्वौदासीन्यम् । तथा बहिरपि मृत्पिण्डात्कुम्भकारव्यापारचक्रचीवरादिसामग्रीसन्निपाते घटस्ततो घटी ततः कालान्तरे करकादिकमिति । न पुनरेकस्मिन्नेव क्षणे सर्व तथोपलम्भाभावात् । किञ्च, यदि यौगपद्येन कार्यं करोति, तर्येकस्मिन्नेव समये सकलस्य कार्यकदम्बकस्य निष्पादितत्वाद् द्वितीयादिक्षणे कार्याकर्तृत्वाद् अवस्तुत्वं स्यात् । ननु च पुरुषस्य चैतन्यमेवार्थक्रिया, न पुनः स्वव्यतिरिक्तस्य प्रमाणप्रमितिलक्षणस्य कार्यस्यान्यस्य वा अयनादिलक्षणस्य कर्तृत्वमिष्यते, तस्य प्रधानहेतुकत्वात् । न च चेतना पुंसोऽर्थान्तरमेव, तस्य चेतनालक्षणत्वात् । चैतन्यं स्वरूपं पुरुषस्येति वचनात् । न चानित्या चेतना पुरुषस्वभावस्तन्नित्यत्ववत्(?) । सा नित्या, तस्याः प्रधानस्वभावत्वेन पुरुषकल्पनावैफल्यप्रसङ्गात् तदनित्यत्वप्रसङ्गाच्च, सुखादिवत् । न च नित्यायाश्चेतनायाः परस्यार्थक्रियात्वं विरुद्ध्यते, धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात् सत्तावत् । ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । न ह्यर्थक्रियाकरणस्यैव वस्तुत्वम्, अर्थक्रियायाः स्वयमवस्तुत्वापत्तेः, तत्रार्थक्रियान्तराभावात्, अन्यथाऽनवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुत्वस्वभावत्वे पुरुषस्यापि स्वतः सततमर्थक्रियास्वभावत्वान्नित्यं वस्तुत्वमस्तु । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188