Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 167
________________ Vol. XXVIII, 2005 વીતરાગસ્તોત્ર-અષ્ટમપ્રકાશટીકા 161 सति क्षणिकत्वक्षतिः । द्वितीयमपुण्यक्षणं यावदात्मनो नावस्थानात् युगपत्पक्षस्तु विरोधबाधाविधुर एव । एवं बन्धमोक्षावप्येकान्तानित्यपक्षे विचार्यमाणौ विशीर्येते । अत एकान्तनित्यानित्यपक्षौ न क्षेमङ्करौ । तस्मानित्यानित्य आत्मा, पुण्यापुण्यबन्धमोक्षाद्यन्यथानुपपत्तेरिति ॥३॥ एवं च सत्त्वस्यैकान्तनित्यतायामेकान्तानित्यतायां च न केवलं कृतनाशाकृतागमसन्निपातविनिपात एव। किञ्चात्मनोऽपि तथात्वाभ्युपगमे न केवलं सुखदु:खभोगपुण्यपापबन्धमोक्षक्षतिरेव । यावदखिलस्यापि आत्मादिवस्तुस्तोमस्य नित्यानित्यतायामनाद्रियमाणायामकाण्डकूष्माण्डोद्भेदसोदरमनर्थान्तरमपिनिपततीत्याह क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि। एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥४॥ अप्रच्युतानुत्पन्नस्थिरैकरूपाणां नित्यानां क्रमेणाक्रमेणाप्यर्थक्रियाकारित्वं न युज्यते । तथा हि-नास्ति नित्यैकरूप आत्मादिरनर्थक्रियाकारित्वात्, यदनर्थक्रियाकारित्वाद्यदनर्थक्रियाकारि, तन्नास्तीत्युपलब्धम् । यथा खपुष्पम्, अनर्थक्रियाकारी च नित्यैकरूप आत्मादिः, तस्मानास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः । अर्थक्रियाकारित्वं हि कार्यकर्तृत्वमुच्यते । तच्चात्मादेः क्रमेण यौगपद्येन वा ? प्रकारान्तराभावात् । न तावत् क्रमेण घटते । क्रमो हि द्विधा-देशक्रमः कालक्रमश्च । न तावद्देशक्रमेण कुर्यात्, देशकमो ह्येकत्र देशे कार्यमेकं कृत्वा पुनर्देशान्तरेऽन्यकार्यकरणमुच्यते, न च नित्यैकस्वभावस्येत्थम्भूतः क्रमः सम्भाव्यते, नित्यैकस्वभावताव्याघातप्रसङ्गात् । यदा ह्येकत्रदेशे कार्यमेकं अपरं चान्यत्र करोति, तदा पूर्वस्मिन् देशे पूर्वकार्यकरणस्यैव सामर्थ्यम्, नोत्तरकार्यकरणसामर्थ्यम्, अन्यथा पूर्वस्मिन्नेव देशे तस्याप्युत्पत्तिप्रसङ्गः । तथा च पूर्वोत्तरदेशयोः स्वभावभेदान्नित्यैकरूपताव्याघातो भवेदेव । ननु नित्यैकस्वभावस्य पदार्थस्यैकत्रदेशे सर्वकार्योत्पादनसामर्थ्यसद्भावेऽपि नोत्तरदेशभावि कार्य भवेत् सहकारिकारणाभावादिति चेत् ? उच्यते, सहकारिणः किं तस्योपकारकत्वेनैकार्थकारित्वेन वा ? प्रथमपक्षे किमसावुपकारस्ततोऽव्यतिरिक्तो व्यतिरिक्तो कथञ्चिद् व्यतिरिक्तो वा ? गत्यन्तराभावात् । यद्यव्यतिरिक्तस्तदा नित्यताहानिः खलूपकारादिनित्यादभिन्नस्य भावस्य नित्यत्वं नाम, तत्स्वरूपवत् । भेदैकान्तवादाभावश्च योगस्य । अथ व्यतिरिक्तो विधीयते, तर्हि तस्येति व्यपदेशाभावः, सम्बन्धाभावात् न च सम्बन्धाभावोऽसिद्धः। स हि संयोगलक्षणः. तादात्म्यलक्षणः, समवायलक्षण:. उपकार्योपकारकलक्षणो अदृष्टलक्षणो वा ? न तावत्संयोगलक्षणः, तस्य गुणत्वेन द्रव्यवर्तित्वाद् द्रव्ययोरेव संयोग इति वचनात् । नापि तादात्म्यं, तस्यानभ्युपगमादन्यथाऽनेकान्तवादप्रवेशो योगस्य । नापि समवायलक्षणः, स ह्येकः सर्वगतश्च परैरिष्यते कथं तद्वशात्तत्रैव तस्य भावो, नान्यत्रेति । अथ समवायस्य सर्वगतत्वाविशेषेऽपि समवायिनां प्रतिनियमः । प्रत्यासत्तिविशेषसद्भावादिष्यते । स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात् । नाप्युपकार्योपकारकलक्षणः, उपकारकेण ह्युपकार्यस्योपकारः क्रियमाणोऽव्यतिरिक्तो व्यतिरिक्तो वा ? अव्यतिरेके (नित्यस्यापि) कार्यत्वम्, व्यतिरिके सम्बन्धासिद्धिः। अथोपकारेणाप्युपकारान्तरं विधीयते, तर्हि तेनाप्यपरं तेनाप्यपरमित्यनवस्था । नाप्यदृष्टलक्षणः, तस्य सम्बन्धरूपताभावात् । तन्न व्यतिरेकपक्षोऽपि घटते । कथञ्चित्पक्षोऽपि न श्रेयान्, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । तन्नोपकारकत्वेन सहकारिणः स्युः । नाप्येकार्थकारित्वेन । न खलु स्वरूपेणाकारकं पररूपेण कारकं, स्वयमकारकस्य पररूपेणाप्यकारकत्वात् न हि गोधूमबीजं स्वयं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188