Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 166
________________ 160 જિતેન્દ્ર બી. શાહ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२॥ एकान्तनित्यत्वे ह्यात्मनः सत्यत्वेन मन्यमाने सुखदुःखयोर्भोगौ न घटामटाट्यते । तथा हिएकान्तनित्यः स ह्यात्मा सुखदुःखे क्रमेण भुङ्क्ते युगपद्वा ? न तावत्क्रमेण, नित्यत्वव्याघातात् । न हि येनैव स्वभावेन दुःखं भुङ्क्ते तेनैव स्वभावेन सुखम्, तयोरेकत्वप्रसङ्गात् । स्वभावभेदे 'चैकस्वभावनित्यत्वक्षतिः । युगपच्चेत् ? तदपि न, न हि कदाचिदपि छायातपयोरेव परस्परपरिहारविरोधव्याघ्राघ्रातयोः सुखदुःखयोर्युगपदनुभवः सम्भवति । तस्मादेकान्तनित्यत्वे जीवस्वतत्त्वे न कदाचिदपि सुखदुःखोपभोगः । यद्येवं तर्त्येकान्तानित्यात्मपक्षकक्षीकारे बद्धकक्षं सुगतमतमेवानुमतमस्त्विति चेत् ? तन्निराचि - कीर्षुराह - एकान्तानित्येत्यादि । एकान्तानित्यस्वभावेऽप्यात्मनि अभ्युपगम्यमाने सुखदुःखयोरभोगभाक्त्वमेवास्य स्यात् । तथा हि-एकान्तक्षणिको ह्यात्मा सुखदुःखे क्रमेण भुङ्क्ते युगपद्वा ? क्रमेण चेत् सुखदुःखे भुङ्क्ते तदा क्षणिकत्वक्षतिः । क्रमो हि परिपाटिः, सा च सातत्यमन्तरेण न सम्भवति, तदभिमतं च क्षणिकत्वमेकक्षणरूपं तन्न क्रमेण सुखदुःखोपभोगः । युगपच्चेत्, तदा पूर्वविरोध एव बाधाविधायी । तस्मान्नित्यानित्यारूप आत्मा । सुखदुःखोपभोगान्यथानुपपत्तेरित्यनुमानान्नित्यानित्यात्मसिद्धिः ॥२॥ किञ्चैकान्तनित्यैकान्तानित्यपक्षकक्षीकारसारमते यद्दूषणान्तरमात्मनोऽवतरति तदाह पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥३॥ SAMBODHI न तावन्नित्यैकान्तात्ममते पुण्यपापे सम्भवतः । यतो नित्यो ह्यात्मा पुण्यपापानुपाती स्वभावभेदमन्तरा न सम्भवति । पुण्यपापाभ्यां च पूर्वं परिणामं परित्याज्योत्तरपरिणामवानात्मा निर्मीयते । 'परिणामान्यत्वं च नित्यत्वक्षतिकारि । यदि पूर्वपरिणामपरिहारेणोत्तरपरिणामाश्रयणं, तदा किं नामात्मनो नित्यत्वव्यत्यासकरं ? परिणामयोरेवानित्यत्वात् । यद्यन्यस्यानित्यतयाऽन्यस्यानित्यत्वं तदा अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वं समागतम्, इत्यपिं किं न स्यात् ? इति चेत्, तन्न, परिणामपरिणामवतोः कथञ्चिदभेदात् । कथञ्चिदभेद एव कथमिति चेत् ? एतद् ब्रूमः । परिणामपरिणामिनौ कथञ्चिदभिन्नौ, परिणामोपकारापकाराभ्यां परिणामिनोऽप्युपकारापकारप्रवृत्त्युपपत्तेः । तस्मान्नित्यैकान्तपक्षे पुण्यपापोदयः समीचीनतां नाञ्चति । किञ्च, नित्यैकान्तपक्षे बन्धमोक्षावपि न युज्येते । यदि बन्धस्वभावमपहाय मुक्तिमाकलयति, तदा स्वभावपरिभवे कथं नानित्यता ? यो हि बद्धः, स बद्ध एव । एवं च सति सर्वथा मुक्तिविलय एव । तथा च सति कः पापमपहाय पुण्यपण्यं नैपुण्येन सङ्गृह्णीयात् ? कश्चात्मारामाविरामविश्रामेण माध्यस्थमवलम्ब्य सम्यक् तत्त्वोपनिपातप्रवृत्तिं कुर्यात् एवं च सति सर्वधर्मविलय एव । तथा च सर्वशास्त्राम्भोधिकुम्भसम्भवत्वाविर्भावो नित्यैकान्तवादिभिरेवोक्तः स्यात् । तस्माद् युक्तमेवोक्तं "पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने" इति । Jain Education International तथाऽनित्यैकान्तदर्शनेऽपि न पुण्यपापसम्भवः । कथमिति चेत् ? उच्यते - क्षणिको ह्यात्मा पुण्यापुण्यादिकं क्रमेणानुवीत युगपद्वा ? क्रमेण चेत्तदा यस्मिन् क्षणे पुण्यं तदा नापुण्यमाक्रान्तम्, एवं च For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188