Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 172
________________ 166 . हितेन्द्र बी. As SAMBODHI श्रयदोषानुषङ्गात् । सति हि विरोधे तेनास्या बाध्यमानत्वाद् भ्रान्तत्वम्, ततश्च तद् विरोधसिद्धिरिति । विरोधश्चाविकलकारणस्य भवतो द्वितीयसन्निधानेऽसत्त्वान्निश्चीयते । यथोष्णसन्निधाने शीतस्य । न च पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेणाभेदस्याऽभाव उपलभ्यते । किञ्चानयोविरोधः किं सहानवस्थानस्वभावः परस्परपरिहारस्थितिस्वभावो वध्यघातकस्वभावो वा? तत्र न तावत्सहानवस्थानस्वभावो घटते, मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदस्य घटादिपर्यायरूपतया (च) भेदस्याध्यक्षबुद्धौ प्रतीयमानत्वात् । न च तथाप्रतीयमानयोरप्येकत्र तयोविरोधो युक्तः, रूपरसयोरपि तत्प्रसङ्गात् । परस्परपरिहारस्थितिस्वभावस्तु विरोधो घटादौ भेदाभेदयोः सत्त्वासत्त्वयोर्वा रूपरसयोरिव सतोरेव नासतो पि सदसतोः सम्भवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोः, न च भेदाभेदयोः सत्त्वासत्त्वयोर्वा बलवदबलवद्भावो दृश्यते । न हि यथा नकुलेन बलवता सर्पस्य विघात: क्रियमाणो दृश्यते तथा भेदेनाभेदस्याभेदेने च भेदस्य विघातो दृश्यते, तथाप्रतीतेरभावात् । ... __ भवतु वा कश्चिद्विरोध इति, तथाप्यसौ सर्वथा कथञ्चिद्वा स्यात्, गत्यन्तराभावात् । न तावत्प्रथमपक्षो घटते । शीतोष्णस्पर्शयोपि प्रमेयत्वादिना विरोधसिद्धिः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीतस्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव, अनयोः प्रदेशयोर्भेद एवेष्यते । भवतु नामानयोर्भेदो धूपदहनाद्यवयविनस्तु भेदो, न चास्य शीतोष्णस्पर्शाधारता नास्तीति वक्तुं युक्तम्, अध्यक्षविरोधात । तस्मान्न सर्वथा भावानां विरोधो घटते । कथञ्चिद्विरोधस्त सर्वभावेष तल्यो न बाधकः ॥१॥ यच्चोक्तम्- वैयधिकरण्यं स्यादिति, तदप्यसत्यम्, १६निर्बाधकप्रत्यक्षबुद्धौ भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु प्रतीयमानयोर्वैर्यधिकरण्यम्, रूपरसयोरपि तत्प्रसङ्गात् ।।२।। उभयदोषोऽपि न घटते, प्रतीयमाने कथमुभयदोषो नाम ? ॥३॥ नानादोषोऽपि न स्यात् । यथैव हि घटादौ भेदोऽनुभूयते तथाऽभेदोऽपीति कथं नानात्वदोषः? अत एव सङ्करव्यतिकरावपि न स्तः, भेदाभेदयोरेकस्मिन् पदार्थे स्वरूपेण प्रतीयमानत्वात् ॥४॥ यच्चोक्तम्-अनवस्था स्यात् तदप्यनुपपन्न, वस्तुन एव भेदाभेदात्मकत्वाभ्युपगमात् । न पुनर्भेदाभेदयोधर्मयोः, पदार्थस्य तु भेदो धर्म एवाभेदस्तु धर्येवेति कथमनवस्था ? न चैकान्ताभ्युपगमो दोषाय सम्यग्नयविषयस्य भेदस्याभेदस्य च स्याद्वादिभिरभ्युपगतत्वात् ॥५॥ संशयोऽपि न युक्तो भेदाभेदयोः स्वरूपेण प्रतीयमानत्वात्, एकस्मिन् भेदाभेदाप्रतीतौ हि संशयो युक्तः, क्वचित्प्रदेशे स्थाणुपुरुषत्वाप्रतीतौ तत्संशयवत् । चलिता च प्रतीतिः संशयो, न चेयं चलिता ॥६॥ तथा दृष्टहानिरदृष्टकल्पना च न स्यात्, भेदाभेदात्मकस्य वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् ।।७।। तत एवाभावोऽपि न युक्तः ॥८॥ यच्चोक्तम्-नानावस्तुधर्मापेक्षयोत्पादि तदसत्यं, न खलु नानावस्तुधर्मापेक्षया सर्वमनेकान्तात्मकमङ्गीक्रियते येन सिद्धसाधनं स्यात् । अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया । न च तत्र विरोधादि For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188