Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 114
________________ 107 Vol. XVIII, '92-93 अनुभवस्मृतिहेतुकं तिर्यग्व॑तासामान्यादिगोचरं सङ्कलनात्मकं ज्ञाानं प्रत्यभिज्ञाानम् ॥ ५ ॥ यथा तज्जातीय एवायं गोपिण्डो, गोसदशो गवयः, स एवायं जिनदत्त इत्यादि ॥ ६ ॥ उपलंभानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः ॥ ७ ॥ यथा यावान् कश्चिद्धमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति ॥ ८ ॥ अनुमानं द्विप्रकारं स्वार्थ परार्थं च ॥ ९ ॥ तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञाानं स्वार्थम् ॥ १० ॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥ इष्टमबाधितमसिद्धं साध्यम् ॥ १२ ॥ तद्विशिष्टः प्रसिद्धो धर्मी पक्षः ॥ १३ ॥ धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः, कुत्रचित्प्रमाणतः, क्वापि विकल्पप्रमाणाभ्याम् ॥ १४ ॥ विकल्पोऽध्यवसायमात्रम् । विकल्पसिद्ध धर्मिणि सत्ता, इतरे साध्ये । अस्ति सर्वज्ञो, नास्ति खरविषाणम् । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं देशः, परिणामी शब्दो यथा ॥ १४ ॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ १५ ॥ पक्षहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तम् । अतिव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोऽत्र दृश्यते इत्यादि हेतुवचनमात्रात्मकमपि तद् भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षात्सूत्रे सूत्रितम् । उपलक्षितं तु द्रष्टव्यम्, मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद् भवतीति ॥ १५ ॥ साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥ १६ ॥ यथा यत्र धूमस्तत्र धूमध्वजः ॥ १६ ॥ व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥ १७ ॥ तथैव, साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः, अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपत्तिः ॥ १८ ॥ ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा ॥ १९ ॥ अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ २० ॥ अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तौ, अशक्तौ च बहिर्व्याप्तेः, उद्भावनं व्यर्थम् ॥ २१ ॥ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥ २२ ॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ २३ ॥ स द्वधाऽन्वयव्यतिरेकभेदात् ॥ २४ ॥ साधनसत्तायां यथावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥ २५ ॥ १. आदिशब्दात् सर्वदेशकालवर्तिवाच्यवाचकसम्बन्धोऽत्र गृहीतो द्रष्टव्यः । २. संस्कृतज्ञो व्युत्पन्नः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172