Book Title: Sambodhi 1993 Vol 18
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 123
________________ 116 SAMBODHI कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिस्ढात शब्दस्तद्विपर्ययानयायित्वात्प्रभतविषयः ॥ ५१ ॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजाननादेवंभूतात्समभिस्ढस्तदन्यथाऽर्थस्थापकत्वान्महागोचरः ॥ ५२ ॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयमिति ॥ ५४ ॥ (इति सप्तमः परिच्छेदः ॥ ) (अथाष्टमः परिच्छेदः ।) अथोत्पादव्ययधौव्ययुक्ताः पदार्थाः ॥ १॥ ते चादीपमाव्योम समस्वभावाः ॥ २ ॥ तत्र चैतन्यलक्षणः परिणामी ज्ञाानादिधर्मभिन्नाभिन्नः कर्ता साक्षाद्भोक्ता स्वदेहपरिणाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः ॥ ३ ॥ चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः १ । परिणमनं सुरनारकादिष्वपरापरायेषु गमनं प्रतिसमयपरापरपर्यायेषु गमनं वा परिणामः, स नित्यमस्यास्तीति परिणामी २ । ये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणततत्वसंसारित्वसिद्धत्वपरवस्तुव्यावृत्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, ते ज्ञानादयो धर्मा उच्यन्ते । तेभ्यो जीवो न भिन्नो नाप्यभिन्नः, किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्तदाहं जानामि अहं पश्यामि अहं ज्ञाताऽहंद्रष्टाऽहं सुखितोऽहं भव्यश्चेत्याद्यभेदप्रतिभासो न स्याद, अस्ति च सर्वप्राणिनां सोऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति भेदबुद्धिर्न स्याद. अस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यादेकजीवाभिन्नत्वात । ततः च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोभेदबुद्धिर्न स्याद्, अस्ति च सा । तथा ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितवृत्त्या भुङ्क्ते सुखादिकमिति साक्षाद्भोक्ता ५ । स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक् प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पौद्गलिकाऽदृष्टवान् ॥ जीवः प्राणभाक्, प्राणाश्च द्रव्यभावभेदाद् द्विविभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिःश्वासायूरूपाः । भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः । आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च - आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घट इति । प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः । अनुमानगम्योऽपि, यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात् १ । श्रोत्रादीन्युपलब्धिसाधनानि कर्तृप्रयोज्यानि, करणत्वात्, कुठारादीव २ । देहस्यास्ति विधाता, आदिमत्प्रतिनियताकारत्वात्, घटवत् । यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽभ्रविकारः । यश्च देहस्य कर्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता, करणत्वात्, यथा दण्डचक्रादीनां कुलालः ४ । विद्यमानभोक्तकं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः, व्युत्पत्तिमत्, शुद्धपदप्रतिषेधात् । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान्, यथाऽघटो घटप्रतिपक्षवान् । अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो, यथा अखरविषाणशब्दः अडित्थ इति वा ॥ ८ ॥ तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते यथा

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172